SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्यन्ते प्रमोदेन गात्राणि । राजभवनं च चतुर्भिरपि वर्णैः व्याप्तम्, वर्धापनाय आगताभिः स्वर्णकोटीमिः पूर्णम् । पुनः प्रमोदाकुलचेटीभिः आकीर्णम्, । दिव्यरथैः संनिबद्धपथं, तुरङ्गमैः दुर्गमम् पत्तिनिवेशैः दुष्प्र वैशम्, । मूर्तिमत्प्रमोदमयमिव, संप्राप्तसर्वाभ्युदयमिव, करकलितसकलसिद्धिकमिव, समुद्दीपितचतुर्बुद्धिकमिव, लब्धत्रिभुवनमहाराज्यमिव, सर्वसंप्रातिप्राज्यमिव । पुनरपि विधीयन्ते स्म हहशोभाः । प्रकट्यन्ते सा मञ्चोन्मञ्चेषु नाट्यानि, वाद्यन्ते स्म सूर्यनिर्घोषाः, लोकानां कोलाहलेन कर्णपतितमपि न श्रूयते, पुनरपि प्रयोजिताः श्रीजिनप्रासादेषु पूजा:, बन्दिमोचनानि कृतानि, सर्वत्र नगरमध्ये अमारिपटही घोषितः, सुसाधूनां पर्युपास्तिः विस्तारिता, प्रारब्धानि साधर्मिक वात्सल्यानि, व्यक्तीकृता श्रीसङ्घभक्तियुक्तिः, सत्रागारेषु महादानानि सूत्रितानि याचकानां मनोरथदानानि दत्तानि महादानेन राजपुरुषाः कल्पवृक्षा इव जाताः, । राजा परमैश्वर्येण इन्द्र इव जातः, लोकश्च सर्वोऽपि प्रभूतदिव्याभरणादिविभूत्या सुरलोक इव दृश्यते, गृहे गृहे च | महान् महोत्सवः संपन्नः, सर्वेषां च परमानन्दः प्रकटीबभूव । अथ भगवान् गर्भगतः कीदृशं अभिग्रहं गृह्णाति ?, तत्राह - तणं समणे भगवं महावीरे गब्भत्थे चेव इमेयारूवं अभिग्गहं अभिगिves - नो खलु मे कप्पइ अम्मापिऊहिं जीवंतेहिं मुंडे भविता अगाराओ अणगारिअं पवइत्तए ॥ ९४ ॥ व्याख्या- "तए णं समणे" ततश्च श्रमणो भगवान् महावीरः “गब्भत्थे चैव त्ति" पक्षाधिकमासषट्रे व्यति For Private and Personal Use Only XOXOXOXxxx
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy