SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र कल्पलता व्या०४ खमलक्षणपाठकानां सन्मानः ॥ ९२॥ भट्टाचार्यः प्राह-"भो भोज ! मया एकालिदर्शनेन ज्ञापितम्-'पकः शिवो जगत्कर्ताऽस्ति । भवदीयभट्टेन विशेषो ज्ञापितोऽङ्गुलिद्वयदर्शनेन-'यत् एकेन शिवेन किं ? द्वितीया शक्तिः अप्यस्ति । पुनः मया प्रलम्बाङ्गुलिहस्तदर्शनेन ज्ञापितम्-'इन्द्रियाणि पश्च सन्ति ।' त्वदीयभट्टाचार्येण मुष्टिदर्शनेन ज्ञापितम्-'पञ्चेन्द्रियाणि बद्धानि दमितानि भव्यानि ।' ततो भवदीयो भट्टाचार्यो महापण्डितो महावैराग्यवान् च (तस्य) कियन्माहात्म्यं वपर्यते ? नेदृशः पण्डितः कुत्रापि । ततो दक्षिणीयभट्टाचार्यों माननष्टः त्वरितं खदेशाय चलितः। ततो भोजराजेन गांगातली पृष्टः-'पण्डितवर ! को वादः कृतः। ततः तेनोक्तम्-भो राजन्! मम तेन भद्देन एकालिदर्शनेन ज्ञापितम्-त्वं काणोऽसि ।' मया अङ्गुलिद्वयदर्शनेन ज्ञापितम्-'अहं त्वां द्वयोश्चक्षुषोः। काणं करिष्यामि। ततो दक्षिणीयभट्टेन प्रलम्बहस्तदर्शनेन ज्ञापितम्-'अहं त्वां चपेटया मारयिष्यामि ।' ततो मया रोषं कृत्वा, मुष्टिदर्शनेन ज्ञापितम्-'अहं त्वां मुष्ट्या घुम्माधुम्मिकरणेन मारयिष्यामि । तदा राजादिका सर्वाऽपि सभा सहर्ष हसति स्म-'अहो अस्य दिनानि समीचीनानि !, सुसिद्धिकोऽयम् । स च राज्ञा बहुसन्मानादिना सन्तोषितः स्वस्थानं गतः। सिद्धार्थों राजा बदति स्म-'यूपमपि सुसिद्धिकाः, तेन भवदुक्तं मम सत्यं भवतु' इति । अथ सिद्धार्थों राजा खपलक्षणपाटकानां किं करोति स्म ?, तत्राहते सुमिणलक्खणपाढए विउलेणं असणेणं पुप्फवत्थगंधमल्लालंकारेणं सकारेइ सम्माणेइ, ॥ ९२॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy