SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie णसाला जेणेव सिद्धत्ये खत्तिए तेणेव उवागच्छंति, उवागच्छित्ता करयलपरिग्गहिरं जाव कह सिद्धत्थं खत्तिअंजएणं विजएणं वद्धाविति ॥ ६७ ॥ व्याख्या-'तए णं' ततश्च ते स्वमलक्षणपाठकाः सिद्धार्थस्य क्षत्रियस्य कौटुम्यिकपुरुषैः आहूताः सन्तः हृष्टतुष्टाः सन्तः स्लाताः कृतलानाः । पुनः स्नानानन्तरं कृतं बलिकर्म खदेवतानां यैः ते । पुनः किंविशिष्टाः खनलक्षणपाठकाः । कृतानि कौतुकमङ्गल्यान्येव प्रायश्चित्तानि दुःस्वमादिविघातार्थ अवश्यकरणीयत्वात् यैः ते तथा। तत्र कौतुकानि-मषीतिलकादीनि मङ्गलानि च सिद्धार्थकदध्यक्षतदूर्वाङ्गुरादीनि। अन्ये त्वाहु:-"पायच्छुत्ता” इति, पादेन पादे वा छुप्ताः चक्षुर्दोषपरिहारार्थ पादछुप्ताः, कृताः कौतुकमङ्गलाश्च ते पादछुप्ताचेति समासः । पुनः किंविशिष्टाः खमलक्षणपाठकाः?। शुद्धात्मानः लानेन शुचीकृतदेहाः । पुनःर्किविशिष्टाः खपलक्षणपाठकाः । वस्त्राणि परिहिताः। किविशिष्टानि वस्त्राणि?। “वेसाइ" वेषे साधूनि वेष्याणि, अथवा शुद्धानि च तानि प्रवेश्यानि च राजसभाप्रवेशोचितानि चेति पदद्वयेनापि वस्त्रविशेषणं कार्यम् । पुनः किंविशिष्टानि वस्त्राणि? । मङ्गलकरणे साधूनि । पुनः किंविशिष्टानि वस्त्राणि? । प्रवराणिप्रधानानि । पुनः किंविशिष्टाःम्बमलक्षणपाठका:?| "अप्पेत्ति" अल्पानि महा_णि बहुमूल्यानि यानि आभरणानि तैः अलङ्कतं शरीरं येषां ते। पुनः किंविशिष्टाः स्वपलक्षणपाठकाः? । “सिद्धत्थेत्ति” सिद्धार्थकाश्च सर्षपाः हरितालिका दूर्वाश्च कृता मङ्गलानिमित्तं मूर्धनि-शिरसि यैस्ते, एवंविधाः सन्तः स्वमलक्षणपाठकाः खकेभ्यः स्वकेभ्यः आत्मीयेभ्यः आत्मीयेभ्यः XXXXXXXXX For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy