________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
येन सः। पुनः किंविशिष्टः नरेन्द्रः। नानामणिकनकरत्नैः विमलानि महा_णि निपुणेन शिल्पिना"उवचिअत्ति" परिकर्मितानि, "मिसिमिसिंतत्ति' दीप्यमानानि यानि विरचितानि सुश्लिष्टानि=विशिष्टानि लष्टानि=| मनोहराणि आविद्धानि-परिहितानि वीरवलयानि येन, सः कोऽपि वीरो मां विजित्य एतानि वलयानि मोचयतु इति स्पर्धया यानि वलयानि परिवधाति, तानि वीरवलयानि उच्यन्ते, किंबहुना वर्णितेन इति शेषः । * कल्पवृक्ष इव अलङ्कतो दलादिभिः, विभूषितश्च फलपुष्पादिभिः, राजा तु अलङ्कतो-मुकुटादिभिः, विभूषितो लवस्त्रादिभिः । पुनः नरेन्द्रः कीदृशः ? तत्राह
सकोरिंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेअवरचामराहिं उडुबमाणीहिं मंगल्लजयसद्दकयालोए। व्याख्या-'सकोरिटत्ति एवंविधन ध्रियमाणेन छन्त्रेण श्वेतवरचामरैः उदयमानैश्च सहित इति शेषः। किविशिष्टेन छत्रेण ? | सकोरिण्टानि कोरिण्टाख्यकुसुमस्तबकवन्ति माल्यदामानि-पुष्पसजो यत्र तत् तेन । कोरिण्टकः पुष्पवृक्षजातिः, तत्पुष्पाणि मालान्तेषु शोभार्थ दीयन्ते, मालायै हितानि माल्यानि-पुष्पाणि दामानि माला । वाचनान्तरे सूर्याभदेववत् अलङ्कारवर्णकः स चैवं-"एगावलिपिणद्धे” इत्यादिराजप्रश्नीयसूत्रे, तच विस्तरार्थना राजप्रश्नीयसूत्रात् ज्ञेयम् । अत्र चामरस्य क्लीयत्वेऽपि स्त्रीत्वं "गौडमतेन"। पुनः किंविशिष्टः नरेन्द्रः ?। मङ्गलभूतो जयशब्दः कृतः आलोकेन यस्य स तथा । 'लोककृतमार्गदानः' इत्यन्ये ।
For Private and Personal Use Only