SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit कल्पसूत्र कल्पलता व्या०४ ।। ७२ ॥ व्याख्या-"तएण" इत्यादीनां “जेणेव सयणिजे" इतिपर्यन्तानां पदानां पूर्व अर्थों व्याख्यातोऽस्ति, तथापि सिद्धार्थसम्बन्धलापनिकामात्रं प्रोच्यते । ततः सा त्रिशला क्षत्रियाणी इमान् एतादृशान् पूर्व व्याख्यातान् चतुर्दश- प्रतिस्वप्नान् दृष्ट्वा, हृष्टतुष्टा सती खभावग्रहं कृत्वा शयनीयात् समुत्थाय पादपीठादपि समुत्तीर्य, अत्वरितया अच-II दोधनम् पलया असम्भ्रान्तया अविलम्बितया राजहंससदृशया गल्या यत्रैव शयनीयं यत्रापि सिद्धार्थनामा क्षत्रियो राजा तत्रैव आगच्छति, आगत्य च सिद्धार्थ क्षत्रियं प्रति एतादृशाभिः गीर्भिः वाणीभिः एवं प्रतियोधयति जागरयति । किविशिष्टाभिः गीर्भिः। "ताहिति" या विशिष्टगुणोपेताः ताभिः । पुनः किंविशिष्टाभिःगीमिः। इष्टाभिातस्य सिद्धार्थस्य वल्लभाभिः। “स्त्रीणां वचनं वल्लभं भवति प्रायेण प्राकृतजनानामपि" । पुनः किंविशिष्टाभिः गीर्भिः?। कान्ताभिः अभिलषिताभिः सदैव तेन । पुनः किंविशिष्टाभिः गीर्भिः । प्रियाभिः अद्वेप्याभिः सर्वेषामपि । पुनः किंविशिष्टाभिः गीर्भिः। मनोज्ञाभिः मनोरमाभिः कथयाऽपि । पुनः किंविशिटामिः गीर्भिः?। मनोरमाभिः मन:नियाभिः चिन्तयापि। पुनः किंविशिष्टाभिःगीभिः । उदाराभिा उदारनादवर्णोचारादियुक्ताभिः । पुनः किंविशिष्टाभिःगीभिः। कल्याणाभिः-समृद्धिकारिकाभिः । पुनः किंविशिप्टाभिः गीर्भिः शिवाभिः गीर्दोषानुपटुताभिः । पुनः किविशिष्टाभिः गीर्भिःशुधन्याभि-धनलम्भिकाभिः। ॥७२॥ पुनः किंविशिष्टाभिः गीभिः। माङ्गल्याभिा मङ्गले साचाभिः। पुनः किंविशिष्टाभिः गीर्भिः। सश्रीकाभिः अलङ्कारादिशोभावतीभिः । पुन किंविशिष्टाभिः गीर्भिः? । “हिययगमणिजाहित्ति" कचित् दृश्यते । तत्र For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy