SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमत्रं कल्पलता च्या०३ खम पवित्रपानीयेन प्रतिपूर्ण भृतम् । पुनः किंविशिष्टं पूर्णकलशम् ? । उत्तम प्रधानम् । पुनः किंविशिष्टं पूर्णकल- | पूर्णकलशशम् । दीप्यमानशोभं ज्ञानं दीप्यमाना शोभा यस्य स तम् । पुनः किंविशिष्टं पूर्णकलशम् ? । कमलकलापेन कमलसमूहेन परि-समन्तात् राजमानम् (शोभायमानं)। कचिच “कालमऊरकलावपरिरायमाणं" पाठः, सतु वर्णनम् ९ स्पष्टार्थ एव । पुनः किंविशिष्टं पूर्णकलशम् १ प्रतिपूर्णकानां सर्वमङ्गलभेदानां समागमो मेलापकस्थानं, कधिच "पडिबुझतसवमंगलालयसमागमं” इति पाठः, तत्र प्रतिबुद्ध्यमानानि-जागरूकानि यानि सर्वमङ्गलानि * तेषां आलयो निवासभूतः समागमा संमुखागमनं यस्य स तम् । पुनः किंविशिष्टं पूर्णकलशम् ? । “पवरेत्ति" प्रवररत्नैः प्रकर्षेण राजति कमले स्थितम् , यद्वा प्रवरा रचना यस्य तथा परागः पुष्परजः अन्तर्ग, यस्य तादृशे कमले स्थितम् । कचिच "पवररयणपसरतकमलट्ठिअंति" पाठः, तत्र प्रवराणि रत्नानि यत्र तब तत्पसरद विकसत्कमलं च तन्त्र स्थितम् । पुनः किंबिशिष्टं पूर्णकलशम् ? । “नयणे ति" नयनानां आनन्दकरत्वात् भूषणकरम् । पुनः किंविशिष्टं पूर्णकलशम् । प्रभासमानं स्वयं रचयंतं प्रभया वा असमानं अत एव सर्वा दिशो दीपयन्तम् । पुनः किंविशिष्टं पूर्णकलशम् ? । “सोमेति' सौम्यलक्ष्म्याः प्रशस्तसंपदो निहेलणंति देश्यत्वात् गृहम् । पुन: किंविशिष्टं पूर्णकलशम् ? । सर्वैः पापैः अशिवैः परिवर्जितम् , । अत एव शुभम् । पुनः भासुरं=X॥६५॥ दीप्तम् । पुनः किंविशिष्टं पूर्णकलशम् । श्रिया-त्रिवर्गसंपत्या वरं श्रेष्ठं, तदागमसूचकत्वात् । पुनः किंविशिष्टं पूर्णकलशम् ? । “सबोउअति सर्वेभ्यः ऋतुभ्यः समुत्पन्नानां सुरभिकुसुमानां आसक्तं कण्ठस्थं माल्यदाम For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy