________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*
*
*
*
*
द्वितीये वृषभम् २, तृतीये सिंहम् ३, चतुर्थे "अमिसेयत्ति' अभिषिच्यमानां श्रीदेवी ४, पंचमे "दामंत्ति" पुष्पमालाम् । ५, षष्ठे “ससित्ति” चन्द्रम् ६, सप्तमे "दिणयरत्ति” सूर्यम् ७, अष्टमे ध्वजम् ८, नवमे पूर्णकलशम् ९, दशमे पद्मसरोवरम् १०, एकादशे समुद्रम् ११, द्वादशे देवविमानम् १२, त्रयोदशे रवपुञ्जम् १३, चतुर्दशे "सिहित्ति" अग्निं पश्यति १४ ॥ अथ चतुर्दशवमानां वर्णनम् । तत्र प्रथमम् गजवर्णनमाहतएणं सा तिसला खत्तिआणी तप्पढमयाए तओअचउदंतमूसिअगलियविपुलजलहरहारनिकरखीरसागरससंककिरणदगरयरययमहासेलपंडरतरं समागयमहयरसगंधदाणवासियकपोलमूलं देवरायकुंजरं (व) वरप्पमाणं पिच्छइ सजलघणविपुलजलहरगजियगंभीरचारुघोसं इभं सुभं सवलक्खणकयंबिअं वरोरु १॥३३॥ व्याख्या-ततः सा त्रिशला क्षत्रियाणी तत् प्रथमतया तेषां खपानां प्रथमतया पूर्व ईदृशं इभंगजं स्वप्ने पश्यति । अत्र कल्पसूत्रे प्रथमं इभदर्शनं प्रोक्तम्, तत्सामान्यवृत्तिं आश्रित्य, यतो द्वाविंशतितीर्थकरमातरः प्रथमं गजमेव पश्यन्ति स्म । अन्यथा ऋषभदेवमाता तु मरुदेवास्वामिनी प्रथम वृषभ, महावीरदेवमाता * त्रिशला च प्रथम सिंहं अपश्यत् । अतः सामान्यवृत्तिं आश्रित्य प्रथमं गजो व्याख्यायते । कीदृशं इभम् ।
*
*
*
*
*
For Private and Personal Use Only