SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता व्या०२ आश्चर्याणि ॥३४॥ Co-KeXXXXXXXXXXX अथ-"इत्थीतित्यत्ति” तृतीयमिदं आश्चर्यम्-मल्लीकुमार्या स्त्रीवेदत्वेन तीर्थं प्रवर्तितम् । तत्सम्बन्धो यथाश्रीमहाविदेहक्षेत्रे सलिलावतीविजये वीतशोकायां नगर्या बलो नाम राजा, तस्य धारिणीनाम्नी भार्या, तयोः महाबलः पुत्रो द्विसप्तति-कलाबान् । पित्रा यौवने कमल श्रीप्रमुखपञ्चशैतकन्यानां पाणिग्रहणं कारितः। पञ्चशतानि सौधानां रत्नवर्णरूप्यादीनां च पित्रा यौतके दत्तानि, बलो महायलाय राज्यं दत्त्वा चारित्रं गृहीतवान् , क्रमात् मोक्षं च प्राप्तः। अथ महाबलस्य राज्ञः अचल १ धरण २ अभिचन्द्र ३ पूरण ४ वसु ५ वैश्रमणाः ६ षट्र मित्राणि मिलितानि । अन्यदा गुरोः पार्थे धर्म श्रुत्वा, पडिः मित्रैः समं चारित्रं गृहीतम् । सप्ताऽपि गुरुप्रसादात् एकादशाङ्गानि पेटुः । 'सर्वैः समानं तपः कार्यम्' इति प्रतिज्ञां कृत्वा, तपः कर्तुं प्रारब्धम् । महावलस्तु । आगामिभवेऽपि 'अहम् एतेभ्यो अधिको भवामि इति हेतोः, अधिकतपःकरणाय पारणकदिने 'शिरो मे दृष्यति' इत्यादि मिषं कृत्वा मायया उपवासं कृत्वा, मायाप्रत्ययं स्त्रीगोत्रं कर्म बद्धवान् । विंशतिस्थानकसेवनेन तीर्थङ्करनामगोत्रमपि बद्धवान् । ततः षडिः अपि लघुसिंहनिःक्रीडितं तपः प्रारब्धम् । तद्विधिः अयम्-प्रथमश्रेण्यां पारणे विकृतित्यागः १. द्वितीय श्रेण्यां निर्विकृतिकत्यागः २, तृतीयश्रेण्यां अलेपकृत् आहारः ३, चतुर्थश्रेण्यां आचाम्लः ४, दिनमानमिदं वर्षद्वयम् दिनानि अष्टाविंशतिः १ एवं महासिंहनिःक्रीडितं अपि तपः प्रारब्धम् । तदपि पूर्ववत् । नवरं दिनमानमिदं षड्वर्षाणि मासद्वयम् अष्टादश च दिनानि। ततः सर्वेऽपि प्रान्ते द्विमासिकी संलेखनां कृत्वा, चतुरशीतिपूर्वलक्षाः चतुरशी तिसहस्राश्च वर्षाणां आयुः प्रपाल्य सप्तापि ॥३४॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy