SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ष्यन्ति, परं अर्हदादयः ४ उग्रकुलादिष्वेव आगता आगच्छन्ति आगमिष्यन्ति ॥ तर्हि भगवान् कथं ब्राह्मणकुलेषु उत्पन्न: ? इत्याह-परं इदं आश्चर्यम्-अनन्ताभिः उत्सर्पिणीभिः अवसर्पिणीभिश्च (व्यतिक्रान्ताभिः लोके दशप्रकारको आश्चर्यरूपः कश्चित् पदार्थ उत्पद्यते)॥ अन्न-अस्यां अवसर्पिण्यां दश आश्चर्याणि जातानि तानि कथ्यन्ते वसंग्ग-गम्भहरणं, इत्थीतिन्धं अभाविया परिसा। कण्हस्स अचरकको, अवयरणं चंदसूरणं ॥१॥ हरिवंसकुलुपत्ती, चमरुप्पाओ अ अट्ठसयसि । अस्संजयाण पूआ, दसवि अणंतेण कालेण ॥२॥ व्याख्या-"उवसग्गत्ति प्रथम श्रीमहावीरदेवस्य केवलज्ञाने उत्पन्नेऽपि गोशालककृत उपसा जातः तत्सम्बन्धो यथा-एकदा श्रीमहावीरदेवः श्रावस्त्यां नगया समवमृतो गोशालकोऽपि तत्रास्ति, गौतमस्वामी गोचरि(चर्यायै) गतः सन् लोकानां बहनां इदं वचनं श्रुतवान्-यतः द्वौ जिनौ सर्वज्ञौ श्रावस्त्यां श्रीमहावीरो गोशालकश्च । ततो गौतमस्वामिना भगवत्समीपे समागत्य गोशालोत्पत्तिस्वरूपं पृष्टम् । भगवता प्रोक्तम्-'अयं मङ्गुलिपुत्रो नायं सर्वज्ञः । कथं ? एको मलिनामा मङ्खोऽभूत, तस्य सुभद्रा भार्या, तौ शरवणग्रामे गोबहुलब्राह्मणगोशालायां स्थितौ । तत्र पुत्रो जात, इति गोशालनाम उपसर्ग-गर्भहरणं त्रियातीर्थम् अभाविता पर्षत् । कृष्णस्य अमरकका अवतरण चन्द्र-सूर्ययोः ॥ १॥ हरिवंशकुलोत्पत्तिः चमरोत्पातच अष्टशतसिद्धाः । असंयत्तानां पूजा दशाऽपि अनन्तेन कालेन ॥२॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy