________________
श्रीः।
पदान्तः। अथ अपरोक्षाऽनुभूतिः। संस्कृतटीकया भाषानुवादेन च
सहिता ।
श्रीहरिं परमानन्दमुपदेष्टारमीश्वरम् ॥ व्या पकं सर्वलोकानां कारणं तं नमाम्यहम्॥१॥ सं. टी. श्रीगणेशायनमः ॥ स्वप्रकाशश्चहेतुर्यः परमात्मा चिदात्मकः ॥ अपरोक्षानुभूत्याख्यः सोहमस्मि परं सुखम् ॥ ३ ॥ ईशगुर्वात्मभेदावः सकलव्यवहारभूः ॥ औपाधिकः स्वचिन्मात्रः सोऽपरोक्षानुभूतिकः ॥२॥ तदेवमनुसंधाय निर्विघ्नां स्वष्टदेवताम् ॥ अपरोक्षानुभूत्याख्यामाचार्योंक्तिप्रकाशये ॥३॥ यद्यपीयस्वतः स्पष्टा तथापि स्वात्मसिद्धये ॥ यत्नोयं सोपि संक्षेपाक्रियतेऽनर्थनाशनः ॥४॥ काहसुल्काकरः क्वायं सूर्यस्तेजोनिधिः किल ॥ तथापिभक्तिमान्कः किनकुर्या स्वहिताप्तये ॥५॥ तत्राचार्याः स्वेष्टपरदेवताऽनुसंधानलक्षणं मंगलं निर्विघ्नग्रंथसमाप्तये स्वमनसि कृत्वा शिष्यशिक्षायै ग्रंथादौ निवनति श्रीहरिमिति ॥ अहं तं नमामीत्यन्वयः ॥ अत्रेयं प्रक्रिया पदार्थों द्वि