SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 7 संस्कृत टीका - भाषाटीका सहिता । - (३५) ब्रह्मैवाहं समः शान्तः सच्चिदानन्दलक्षणः ॥ नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ २४ ॥ तद्विरोधित्वादात्मज्ञानमेवात्मा सं. टी. नन्वेतस्मिंस्तद्बुद्धिरिति लक्षणभ्रमापरपर्याय मोहकार्या लिंगानुमेयमज्ञानमीदृक् तर्हि तन्निवर्तकं किमित्याकांक्षायां ऽज्ञाननिवर्तकमित्यभिप्रेत्य तल्लक्षणमाह ब्रह्मेत्यादिपंचभिः । अहमहंशब्दप्रत्ययालंबनः प्रत्यगात्मा ब्रह्मेवास्मि एतयोस्तत्त्वंपदार्थयोरैक्ये हेतुगर्भितानि विशेपणान्याह सम इति समः सत्ताप्रकाशाभ्यां सर्वाभिन्नः पुनः किंलक्षणः शांतः निरस्तसमस्तोपाधित्वाद्विक्षेपादिविकारशून्यः पुनः किंलक्षणः सच्चिदा नंदलक्षणः । सच्चिदानंदेरनृतजडदुःखप्रतियोगिभिर्लक्ष्यते विरुद्धांशत्यागरूपया भागलक्षणया ज्ञायत इति सच्चिदानंद लक्षणः । ब्रह्मबोधे हि द्विविधं द्वारं विधिर्निषे श्वेति तत्र सत्यज्ञानादिसाक्षाद्वाचकशब्दप्रयोगलक्ष - णो विधिरुक्तः । इदानीमतन्निरसनलक्षणो निषेधः प्रदश्र्श्यते नाहमिति अहमहंशब्दप्रत्ययालंबन आत्मा देहो नेत्वन्वयः देह इत्युपलक्षणं प्राणेंद्रियादीनामपि हीति विद्वज्जनप्रसिद्धं देहादेरनात्मत्वेहेतुमाह असदिति । असद्रूपोसद्वाध्यमनृतं तादृग्रूपं स्वरूपं यस्य स तथाविध
SR No.034085
Book TitleAparokshanubhuti
Original Sutra AuthorN/A
AuthorShankaracharya, Vidyaranyamuni
PublisherKhemraj Krushnadas
Publication Year1830
Total Pages108
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy