SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ विद्वत्वं च नृपत्वं च । नैव तुल्यं कदाचन ॥ स्वदेशे पूज्यते राजा । विद्वान् सर्वत्र पूज्यते ॥ ३३ ॥ रूपयौवनसंपन्ना । विशालकुलसंभवाः ।। विद्याहीना न शोभते । निर्गेधा इव किंशुकाः ॥ ३४ ॥ वरं दरिद्रोऽपि विचक्षणो नरो । नैवार्थयुक्तोऽपि सुशास्त्रवर्जितः ॥ विचक्षणः कार्पटिकोऽपि शोभते । न चापि मूर्खः कनकैरलङ्कृतः ॥ ३५ ॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं । विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः । विद्या बंधुजनो विदेशगमने विद्या परं दैवतं । विद्या राजसु पूजिता न हि धनं विद्याविहीनः पशुः ॥ ३६ ॥ सुलभानि हि शास्त्राणि । गुरूपदेशस्तु दुर्लभः ॥ शिरो वहति पुष्पाणि । गंधं जानाति नासिका ॥ ३७ ॥ यस्य नास्ति स्वयं मज्ञा ॥ शाखं तस्य करोति किम् । लोचनाभ्यां विहीनस्य । दर्पणः किं करिष्यति ॥ ३७ ॥ पंडितेषु गुणाः सर्वे । मूर्खे दोषास्तु केवलाः ॥ तस्मान्मूर्खसहस्रेषु । प्राज्ञ एको न लभ्यते ॥ ३८ ॥ अकुलीनो नृपीभूतो । मूर्खपुत्रश्च पंडितः ॥ अनेन धनं प्राप्तं । तृणवन्मन्यते जगत् ॥ ३९ ॥ अय राज्ञा तस्मै मंत्रिणे सौभाग्यसुन्दर्यभिधाना स्वकन्या निजं चार्द्ध राज्यं दत्तं तथैवानेकगजहयरत्नमणिमाणिक्यस्वर्णादिभृतानि द्वात्रिंशत्प्रवहणान्यप्यर्पितानि, एवंविधां तस्यद्धिं दृष्ट्वा सागरदत्त व्यवहारी हृदि प्रज्ज्वलितुं लग्नःअथ स सागग्दो निजशेषक्रयाणकानि विक्रीय तत्रस्थैर्नानाविधैरपरैः क्रयाणकैः प्रवहणमापूर्य पश्चान्मनसीयया ज्वलमानः स्वदेशीयत्वाज्जनेन मन्त्रिणमाकारयामास तदा मन्त्रिणापि निजश्वसुरराज्ञे प्रोक्तं यदहं यास्यामि स्वदेशे, तदा रा Scanned by CamScanner
SR No.034078
Book TitleKamkumbhadi Katha Sangraha
Original Sutra AuthorN/A
AuthorUmechand Raichand Master
PublisherUmechand Raichand Master
Publication Year1923
Total Pages25
LanguageSanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy