SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner भद्रबाहु SEASECS50- ॥ श्रीजिनाय नमः॥ चरित्रम् ॥ अथ श्रीभद्रबाहुस्वामीचरित्रं प्रारभ्यते ॥ कुर्वाणो मानवो नित्यं । जिनेन्द्रशासनोन्नतिं ॥ भद्रबाहुगणाधीश । इवाप्नोति शुभश्रियम् ॥ १ ॥ 3 तथाहि-इहैव भारते क्षेत्रे दक्षिणदिशि प्रतिष्ठानपुराभिधं नगरं वर्तते, तस्मिन्नगरे भद्रबाहुवराहाभिधो द्वौ ४ निर्धनौ सहोदरौ द्विजौ वसतः स्म. अथैकदा श्रीयशोभद्राभिधाः सूरयो महीतले विहरंतस्तत्र नगरे समा-18 जग्मुः. अनेके भव्यजनास्तेषां सूरिवराणां धर्म श्रोतुं समायाताः, तदा तौ द्वौ भ्रातरावपि तैर्जनेः सार्धं , धर्म श्रोतुं तत्रायाती, सूरिभिरपि जनानां पुरो धर्मोपदेशो दत्तः, यथा-संसारंभि असारे । नत्थि सुहं है। वाहिवेअणापउरे ॥ जाणतो इह जीवो । न कुणइ जिणदेसियं धम्मं ॥ १ ॥ यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानल-ज्वालाजालजलं यदुग्रकरणाग्रामाहिमंत्राक्षरं ॥ यत्प्रत्यूहतमःसमूहदिवसं यल्लब्धिलक्ष्मीलता-मूलं तद्विविधं यथाविधि तपः कुर्वीत वीतस्पृहः ॥ २ ॥ इत्यादि धर्मदेशनां निशम्य तौ द्वावपि ॥१॥ AAAAAEASICCORE -
SR No.034061
Book TitleBhadrabahuswami Charitra
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages11
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy