SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ૨૮૬ યોગસારાદિ સૂક્ત- રત્ન - મંજૂષા ३/११ वेदोदयश्च सम्भोगे, व्यलीयेत मुनेर्यदा । अन्तःशुद्धिकरं साम्यामृतमुज्जृम्भते तदा ॥४३॥ ३/१३ दुविजेया दुरुच्छेद्या, एतेऽभ्यन्तरवैरिणः । उत्तिष्ठमाना एवातो, रक्षणीयाः प्रयत्नतः ॥४४॥ ३/१४ यद्यात्मा निर्जितोऽमीभिः, ततो दुःखागमो महान् । यद्यात्मना जिता एते, महान् सौख्यागमस्तदा ॥४५॥ ५/१६ संसारसरणिर्लोभो, लोभः शिवपथाचलः । सर्वदुःखखनिर्लोभो, लोभो व्यसनमन्दिरम् ॥४६॥ ५/१७ शोकादीनां महाकन्दो, लोभो क्रोधानलानिलः । मायावल्लिसुधाकुल्या, मानमत्तेभवारुणी ॥४७॥ ५/१८ त्रिलोक्यामपि ये दोषाः, ते सर्वे लोभसम्भवाः । गुणास्तथैव ये केऽपि, ते सर्वे लोभवर्जनात् ॥४८॥ ५/१९ नैरपेक्ष्यादनौत्सुक्यं, अनौत्सुक्याच्च सुस्थता । सुस्थता च परानन्दः, तदपेक्षां क्षयेन्मुनिः ॥४९॥ ५/२० अधर्मो जिह्मता यावद्, धर्मः स्याद् यावदार्जवम् । अधर्मधर्मयोरेतद्, द्वयमादिमकारणम् ॥५०॥ ५/२१ सुखमार्जवशीलत्वं, सुखं नीचैश्च वर्तनम् । सुखमिन्द्रियसन्तोषः, सुखं सर्वत्र मैत्र्यकम् ॥५१॥ ५/३९ सप्तधातुमये श्लेष्म-मूत्राद्यशुचिपूरिते । शरीरकेऽपि पापाय, कोऽयं शौचाग्रहस्तव ? ॥५२॥ ५/३६ एको गर्भे स्थितो जात, एक एको विनइक्ष्यति । तथाऽपि मूढ ! पल्यादीन्, किं ममत्वेन पश्यसि ? ॥५३॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy