SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ યોગશાસ્ત્ર સૂક્ત- રત્ન- મંજૂષા ૨૭૭ २/७८ कम्पः स्वेदः श्रमो मूर्छा, भ्रमिः ग्लानिः बलक्षयः । राजयक्ष्मादिरोगाश्च, भवेयुः मैथुनोत्थिताः ॥५५॥ २/८१ स्त्रीसम्भोगेन यः कामज्वरं प्रतिचिकीर्षति । स हुताशं घृताहुत्या, विध्यापयितुमिच्छति ॥५६॥ २/८२ वरं ज्वलदयस्तम्भ-परिरम्भो विधीयते । न पुनर्नरकद्वार-रामाजघनसेवनम् ॥५७॥ २/१०१अकलङ्कमनोवृत्तेः, परस्त्रीसन्निधावपि । सुदर्शनस्य किं ब्रूमः, सुदर्शनसमुन्नतेः ? ॥५८॥ २/१०४ प्राणभूतं चरित्रस्य, परब्रह्मैककारणम् । समाचरन् ब्रह्मचर्य, पूजितैरपि पूज्यते ॥५९॥ २/१०५चिरायुषः सुसंस्थाना, दृढसंहनना नराः । तेजस्विनो महावीर्या, भवेयुर्ब्रह्मचर्यतः ॥६०॥ २/१०७ परिग्रहमहत्त्वाद्धि, मज्जत्येव भवाम्बुधौ । महापोत इव प्राणी, त्यजेत् तस्मात् परिग्रहम् ॥६१॥ २/११४ असन्तोषवतः सौख्यं, न शक्रस्य न चक्रिणः । जन्तोः सन्तोषभाजो यद्, अभयस्येव जायते ॥६२॥ ४/५ अयमात्मैव संसारः, कषायेन्द्रियनिर्जितः । तमेव तद्विजेतारं, मोक्षमाहुः मनीषिणः ॥६३॥ ४/९ तत्रोपतापकः क्रोधः, क्रोधो वैरस्य कारणम् । दुर्गतेः वर्तनी क्रोधः, क्रोधः शमसुखार्गला ॥६४॥ ४/१० उत्पद्यमानः प्रथम, दहत्येव स्वमाश्रयम् । क्रोधः कृशानुवत् पश्चाद्, अन्यं दहति वा न वा ॥६५॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy