SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ આત્મનિંદાદ્વાગિશિકા ૨૬૯ १७ १५ अगण्यकारुण्य ! शरण्य ! पुण्य ! सर्वज्ञ ! निष्कण्टक ! विश्वनाथ ! । दीनं हताशं शरणागतं च, मां रक्ष रक्ष स्मरभिल्लमल्लैः ॥४३॥ त्वया विना दुष्कृतचक्रवालं, नान्यः क्षयं नेतुमलं ममेश !। किं वा विपक्षप्रतिचक्रमूलं, चक्रं विना छेत्तुमलम्भविष्णुः ? ॥८४॥ यद्देवदेवोऽसि महेश्वरोऽसि, बुद्धोऽसि विश्वत्रयनायकोऽसि । तेनान्तरङ्गारिगणाभिभूतः, तवाग्रतो रोदिमि हा ! सखेदम् ॥८५॥ १८ स्वामिन्नधर्मव्यसनानि हित्वा, मनः समाधौ निदधामि यावत् । तावत् क्रुधेवान्तरवैरिणो माम्, अनल्पमोहान्ध्यवशं नयन्ति ॥८६॥ १९ त्वदागमाद्वेद्मि सदैव देव !, मोहादयो यन्मम वैरिणोऽमी । तथाऽपि मूढस्य पराप्तबुद्ध्या, तत्सन्निधौ ही न किमप्यकृत्यम् ॥८७॥ म्लेच्छर्नुशंसैरतिराक्षसैश्च, विडम्बितोऽमीभिरनेकशोऽहम् । प्राप्तस्त्विदानी भुवनैकवीर !, त्रायस्व मां यत्तव पादलीनम् ॥४८॥ हित्वा स्वदेहेऽपि ममत्वबुद्धि, श्रद्धापवित्रीकृतसद्विवेकः । मुक्तान्यसङ्गः समशत्रुमित्रः, स्वामिन् ! कदा संयममातनिष्ये ? ॥८९॥ २२ त्वमेव देवो मम वीतराग !, धर्मो भवदर्शितधर्म एव । इति स्वरूपं परिभाव्य तस्माद्, नोपेक्षणीयो भवता स्वभृत्यः ॥१०॥ २३ जिता जिताशेषसुराऽसुराद्याः, कामादयः कामममी त्वयेश !। त्वां प्रत्यशक्तास्तव सेवकं तु, निघ्नन्ति ही मां परुषं रुषेव ॥११॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy