SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ૨૬૬ સ્તુતિસંગ્રહ સૂક્ત- રત્ન-મંજૂષા ११ विडम्बितं यत्स्मरघस्मरार्तिदशावशात् स्वं विषयान्धलेन । प्रकाशितं तद्भवतो हियैव, सर्वज्ञ ! सर्वं स्वयमेव वेत्सि ॥१८॥ १२ ध्वस्तोऽन्यमन्त्रैः परमेष्ठिमन्त्रः, कुशास्त्रवाक्यैर्निहताऽऽगमोक्तिः । कर्तुं वृथा कर्म कुदेवसङ्गाद्, अवाञ्छि ही नाथ ! मतिभ्रमो मे ॥५९॥ १३ विमुच्य दृग्लक्ष्यगतं भवन्तम्, ध्याता मया मूढधिया हृदन्तः । कटाक्षवक्षोजगभीरनाभि-कटीतटीयाः सुदृशां विलासाः ॥६०॥ १४ लोलेक्षणावक्त्रनिरीक्षणेन, यो मानसे रागलवो विलग्नः । न शुद्धसिद्धान्तपयोधिमध्ये, धौतोऽप्यगात् तारक ! कारणं किम् ? ॥६१॥ अङ्गं न चङ्गंन गणो गुणानां, न निर्मलः कोऽपि कलाविलासः । स्फुरत्प्रभा न प्रभुता च काऽपि, तथाऽप्यहङ्कारकदर्थितोऽहम् ॥६२॥ आयुर्गलत्याशु न पापबुद्धिः, गतं वयो नो विषयाभिलाषः । यत्नश्च भैषज्यविधौ न धर्म, स्वामिन् ! महामोहविडम्बना मे ॥३॥ नात्मा न पुण्यं न भवो न पापं, मया विटानां कटुगीरपीयम् । अधारि कर्णे त्वयि केवलार्के, पुरः स्फुटे सत्यपि देव ! धिङ्माम् ॥६४॥ १८ न देवपूजा न च पात्रपूजा, न श्राद्धधर्मश्च न साधुधर्मः । लब्वाऽपि मानुष्यमिदं समस्तं, कृतं मयाऽरण्यविलापतुल्यम् ॥६५॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy