SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ૨૪૮ દ્વાદિંશદ્ દ્વાબિંશિકા સૂક્ત- રત્ન-મંજૂષા २६/१ शास्त्रस्योपनिषद् योगो, योगो मोक्षस्य वर्तनी । अपायशमनो योगो, योगः कल्याणकारणम् ॥८८॥ २६/२ संसारवृद्धिर्धनिनां, पुत्रदारादिना यथा । शास्त्रेणापि तथा योगं, विना हन्त ! विपश्चिताम् ॥८९॥ २६/२९ योगस्पृहाऽपि संसार-तापव्ययतपात्ययः । महोदयसरस्तीर-समीरलहरीभवः ॥१०॥ २९/१ कर्मणां द्राग विनयाद्, विनयो विदुषां मतः । अपवर्गफलाढ्यस्य, मूलं धर्मतरोरयम् ॥११॥ २९/४ अभिग्रहासनत्यागौ, अभ्युत्थानाञ्जलिग्रहौ । कृतिकर्म च शुश्रूषा, गतिः पश्चाच्च सम्मुखम् ॥१२॥ २९/५ कायिकोऽष्टविधश्चायं, वाचिकश्च चतुर्विधः । हितं मितं चापरुषं, ब्रुवतोऽनुविचिन्त्य च ॥१३॥ २९/६ मानसश्च द्विधा शुद्ध-प्रवृत्त्याऽसन्निरोधतः । छद्मस्थानामयं प्रायः, सकलोऽन्यानुवृत्तितः ॥१४॥ २९/७ अर्हत्सिद्धकुलाचार्योपाध्यायस्थविरेषु च । गण-सङ्घ-क्रिया-धर्म-ज्ञान-ज्ञानि-गणिष्वपि ॥१५॥ २९/८ अनाशातनया भक्त्या , बहुमानेन वर्णनात् । द्विपञ्चाशद्विधः प्रोक्तो, द्वितीयश्चौपचारिकः ॥१६॥ २९/९ एकस्याशातनाऽप्यत्र, सर्वेषामेव तत्त्वतः । अन्योऽन्यमनुविद्धा हि, तेषु ज्ञानादयो गुणाः ॥१७॥ २९/१० नूनमल्पश्रुतस्यापि, गुरोराचारशालिनः । हीलना भस्मसात् कुर्याद्, गुणं वह्निरिवेन्धनम् ॥९८॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy