SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ દ્વાદિંશ દ્વાબિંશિકા સૂક્ત - રત્ન - મંજૂષા ૨૪૧ १०/१६ शिरोदकसमो भावः, क्रिया च खननोपमा । भावपूर्वादनुष्ठानाद्, भाववृद्धिरतो ध्रुवा ॥११॥ १०/१६ मण्डूकचूर्णसदृशः, क्लेशध्वंसः क्रियाकृतः । तद्भस्मसदृशस्तु स्याद्, भावपूर्वक्रियाकृतः ॥१२॥ ३/३० गुणी च गुणरागी च, गुणद्वेषी च साधुषु । श्रूयन्ते व्यक्तमुत्कृष्ट-मध्यमाधमबुद्धयः ॥१३॥ ३२/५ सज्जनस्य विदुषां गुणग्रहे, दूषणे निविशते खलस्य धीः । चक्रवाकदृगहर्पतेर्युतौ, घूकदृक् तमसि सङ्गमङ्गति ॥१४॥ ५/४ अप्रीतिर्नैव कस्यापि, कार्या धर्मोद्यतेन वै । इत्थं शुभानुबन्धः स्याद्, अत्रोदाहरणं प्रभुः ॥१५॥ ४/२० अपरस्त्वाह राज्यादि-महाऽधिकरणं ददत् । शिल्पादि दर्शयंश्चाहन्, महत्त्वं कथमृच्छति ? ॥१६॥ ४/२१ तन्नेत्थमेव प्रकृताधिकदोषनिवारणात् । शक्तौ सत्यामुपेक्षाया, अयुक्तत्वान्महात्मनाम् ॥१७॥ ४/२२ नागादे रक्षणायेव, गर्ताद्याकर्षणेऽत्र न । दोषोऽन्यथोपदेशेऽपि, स स्यात् परनयोद्भावनात् ॥१८॥ ४/२८ अर्हमित्यक्षरं यस्य, चित्ते स्फुरति सर्वदा । परं ब्रह्म ततः शब्द-ब्रह्मणः सोऽधिगच्छति ॥१९॥ ४/२९ सारमेतन्मया लब्धम्, श्रुताब्धेरवगाहनात् । भक्तिर्भागवती बीजं, परमानन्दसम्पदाम् ॥२०॥ १/३१ शुभयोगेऽपि यो दोषो, द्रव्यतः कोऽपि जायते । कूपज्ञातेन स पुनः, नानिष्टो यतनावतः ॥२१॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy