SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ 230 १ नत्वाऽऽद्यन्तविनिर्मुक्तं शिवं योगीन्द्रवन्दितम् । योगबिन्दुं प्रवक्ष्यामि, तत्त्वसिद्ध्यै महोदयम् ॥१॥ योगः कल्पतरुः श्रेष्ठो, योगश्चिन्तामणिः परः । योगः प्रधानं धर्माणां योगः सिद्धेः स्वयंग्रहः ॥२॥ तथा च जन्मबीजाग्निः, जरसोऽपि जरा परा । दुःखानां राजयक्ष्माऽयं, मृत्योर्मृत्युरुदाहृतः ॥३॥ कुण्ठीभवन्ति तीक्ष्णानि, मन्मथास्त्राणि सर्वथा । योगवर्मावृते चित्ते, तपश्छिद्रकराण्यपि ॥४॥ मलिनस्य यथा हेम्नोः, वह्नेः शुद्धिर्नियोगतः । योगाग्नेश्चेतसस्तद्वद्, अविद्यामलिनात्मनः ॥५॥ किञ्चान्यद् योगतः स्थैर्यं धैर्यं श्रद्धा च जायते । मैत्री जनप्रियत्वं च प्रातिभं तत्त्वभासनम् ॥६॥ विनिवृत्ताग्रहत्वं च तथा द्वन्द्वसहिष्णुता । तदभावश्च लाभश्च, बाह्यानां कालसङ्गतः ॥७॥ धृतिः क्षमा सदाचारो योगवृद्धिः शुभोदया । आदेयता गुरुत्वं च शमसौख्यमनुत्तरम् ॥८॥ ५०९ पुत्रदारादिसंसार:, पुंसां सम्मूढचेतसाम् । विदुषां शास्त्रसंसार:, सद्योगरहितात्मनाम् ॥९॥ ३७ ३८ ३९ ४१ ५२ ५३ યોગબિંદુ - યોગદૃષ્ટિ સમુચ્ચય સૂક્ત - રત્ન - મંજૂષા યોગબિંદુ - યોગદૃષ્ટિ સમુચ્ચય સૂક્ત - રત્ન - મંજૂષા हरिभद्रसूरिकृतं योगबिन्दुप्रकरणं ५४
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy