SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ૨૨૬ ષોડશકાદિ સૂક્ત- રત્ન - મંજૂષા ६/५ शास्त्रबहुमानतः खलु, सच्चेष्टातश्च धर्मनिष्पत्तिः । परपीडात्यागेन च, विपर्ययात् पापसिद्धिरिव ॥७४॥ ७/१३ आगमतन्त्रः सततं, तद्वद्भक्त्यादिलिङ्गसंसिद्धः । चेष्टायां तत्स्मृतिमान्, शस्तः खल्वाशयविशेषः ॥७५॥ १०/३ यत्रादरोऽस्ति परमः, प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च, तत् प्रीत्यनुष्ठानम् ॥७६॥ १०/४ गौरवविशेषयोगाद्, बुद्धिमतो यद् विशेषतरयोगम् । क्रिययेतरतुल्यमपि, ज्ञेयं तद् भक्त्यनुष्ठानम् ॥७७॥ १०/६ वचनात्मिका प्रवृत्तिः, सर्वत्रौचित्ययोगतो या तु । वचनानुष्ठानमिदं, चारित्रवतो नियोगेन ॥७८॥ १०/७ यत्त्वभ्यासातिशयात्, सात्मीभूतमिव चेष्ट्यते सद्भिः । तदसङ्गानुष्ठानं, भवति त्वेतत्तदावेधात् ॥७९॥ १०/१० उपकार्यपकारिविपाकवचन-धर्मोत्तरा मता क्षान्तिः । आद्यद्वये त्रिभेदा, चरमद्वितये द्विभेदेति ॥४०॥ १०/१४शृण्वन्नपि सिद्धान्तं, विषयपिपासाऽतिरेकतः पापः । प्राप्नोति न संवेगं, तदाऽपि यः सोऽचिकित्स्य इति ॥८१॥ १०/१५ नैवंविधस्य शस्तं, मण्डल्युपवेशनप्रदानमपि । कुर्वन्नेतद् गुरुरपि, तदधिकदोषोऽवगन्तव्यः ॥८२॥ ११/१ शुश्रूषा चेहाद्यं लिङ्गं, खलु वर्णयन्ति विद्वांसः । तदभावेऽपि श्रावणं, असिराऽवनिकूपखननसमम् ॥८३॥ १२/३ यो निरनुबन्धदोषात्, श्राद्धोऽनाभोगवान् वृजिनभीरुः । गुरुभक्तो ग्रहरहितः, सोऽपि ज्ञान्येव तत्फलतः ॥८४॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy