SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ માર્ગપરિશુદ્ધિ ૨૧૭ २५३ नाशीलः शुद्धतपः, कर्तुं सहते न मोहपरतन्त्रः । शक्त्या तपोऽप्यकुर्वन्, भावयति सुभावनाजालम् ॥८८॥ ११९ सद्योगवृद्धिजननं, सद्ध्यानसमन्वितं त्वनशनादि । कुर्यात् तपोऽपि यस्माद्, अपैति चितमांसशोणितता ॥८९॥ येन क्षुदादयः खलु, कर्मक्षयकारणानि भावयतेः । ज्वरिणामिह बाधन्ते, कटुकौषधपानमिव न मनः ॥१०॥ १५९ असकृदपि क्षाराद्यैः, प्राप्तैरप्राप्तवेधपरिणामः । वेधं शुद्धि च यथा, जात्यमणिर्याति तैरेव ॥११॥ १६० अकलितवीर्योल्लासः, तथा श्रुतादप्यनन्तशः प्राप्तात् । लभते वीर्योल्लासं, भव्यः शुद्धिं च तत एव ॥१२॥ १७२ द्रव्याख्यं सम्यक्त्वं, जिनवचनं तत्त्वमिति रुचिः परमा । भूतार्थबोधशक्त्या, परिणमते भावसम्यक्त्वम् ॥१३॥ १७३ अज्ञातगुणे सम्यग्, या श्रद्धा भवति सुन्दरे रत्ने । हन्त ततोऽनन्तगुणा, विज्ञातगुणे पुनस्तस्मिन् ॥१४॥ १३४ अविनिश्चितो हि न भवेद्, अपवादोत्सर्गविषयवित् सम्यक् । अविषयदेशनया च, स्वपरविनाशी स नियमेन ॥१५॥ २९१ निरुपक्रमकर्मवशात्, नित्यं मार्गकदत्तदृष्टिरपि । चरणकरणे त्वशुद्धे, शुद्ध मार्ग प्ररूपयतु ॥१६॥ २९२ दर्शनशास्त्राभ्यासाद्, हीनोऽपि पथप्रभावनोद्युक्तः । यल्लभते फलमतुलं, न तत् क्रियामात्रमग्नमतिः ॥१७॥ २२१ शुद्धतरपरिणामी, निश्चयतो मोक्षबन्धनोपायौ । अत्याज्यसन्निधानाः, परपरिणामा उदासीनाः ॥१८॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy