________________
અધ્યાત્મ ઉપનિષદ વૈરાગ્યભૂલતા
૨૧૧
४/१६ यो दह्यमानां मिथिलां निरीक्ष्य,
शक्रेण नुन्नोऽपि नमिः पुरी स्वाम् । न मेऽत्र किञ्चिज्ज्वलतीति मेने,
साम्येन तेनोरुयशो वितेने ॥३१॥ ४/१७ साम्यप्रसादास्तवपुर्ममत्वाः,
सत्त्वाधिकाः स्वं ध्रुवमेव मत्वा । न सेहिरेऽति किमु तीव्रयन्त्र
निष्पीडिताः स्कन्धकसूरिशिष्याः ? ॥३२॥ ४/१८ लोकोत्तरं चारुचरित्रमेतद्, मेतार्यसाधोः समतासमाधेः ।
हृदाऽप्यकुप्यन् न यदाचर्मबद्धेऽपि मूर्धन्ययमाप तापम् ॥३३॥ ४/१९ जज्वाल नान्तः श्वसुराधमेन,
प्रोज्ज्वालितेऽपि ज्वलनेन मौलौ । मौलिर्मुनीनां स न कैर्निषेव्यः ?,
कृष्णानुजन्मा समताऽमृताब्धिः ॥३४॥ ४/२० गङ्गाजले यो न जहौ सुरेण, विद्धोऽपि शूले समताऽनुवेधम् ।
प्रयागतीर्थोदयकृन्मुनीनां, मान्यः स सूरिस्तनुजोऽर्णिकायाः ॥३५॥ ४/२१ स्त्रीभ्रूणगोब्राह्मणघातजातपापादधःपातकृताभिमुख्याः ।
दृढप्रहारिप्रमुखाः क्षणेन, साम्यावलम्बात् पदमुच्चमापुः ॥३६॥
~ वाचकयशोविजयकृता वैराग्यकल्पलता - १/१२६ समुद्धृतं पारगतागमाब्धेः, समाधिपीयूषमिदं निपीय ।
महाशयाः ! पीतमनादिकालात्, कषायहालाहलमुद्वमन्तु ॥३७॥