SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ અધ્યાત્મસાર સૂક્ત- રત્ન- મંજૂષા २०3 ६/४३ स्वभावान्नैव चलनं, चिदानन्दमयात् सदा । वैराग्यस्य तृतीयस्य, स्मृतेयं लक्षणावली ॥५५॥ ८/२ विषयैः किं परित्यक्तैः ?, जागर्ति ममता यदि । त्यागात् कञ्चकमात्रस्य, भुजङ्गो न हि निर्विषः ॥५६॥ ८/१० स्वयं येषां च पोषाय, खिद्यते ममतावशः । इहामुत्र च ते न स्युः, त्राणाय शरणाय वा ॥५७॥ ८/११ ममत्वेन बहून् लोकान्, पुष्णात्येकोऽजितैर्धनैः । सोढा नरकदुःखानां, तीव्राणामेक एव तु ॥५८॥ ८/१५ मनस्यन्यद्वचस्यन्यत्, क्रियायामन्यदेव च । यस्यास्तामपि लोलाक्षी, साध्वीं वेत्ति ममत्ववान् ॥५९॥ ८/३ कष्टेन हि गुणग्रामं, प्रगुणीकुरुते मुनिः । ममताराक्षसी सर्वं, भक्षयत्येकलया ॥६०॥ ८/२६ धृतो योगो न ममता, हता न समताऽऽदृता । न च जिज्ञासितं तत्त्वं, गतं जन्म निरर्थकम् ॥६१॥ ९/१३ दूरे स्वर्गसुखं मुक्ति-पदवी सा दवीयसी । मनःसंनिहितं दृष्ट, स्पष्टं तु समतासुखम् ॥६२॥ ९/१९ क्षणं चेतः समाकृष्य, समता यदि सेव्यते । स्यात् तदा सुखमन्यस्य, यद् वक्तुं नैव पार्यते ॥६३॥ ९/२६ सन्त्यज्य समतामेकां, स्याद् यत् कष्टमनुष्ठितम् । तदीप्सितकरं नैव, बीजमुप्तमिवोषरे ॥६४॥ ९/२२ प्रचितान्यपि कर्माणि, जन्मनां कोटिकोटिभिः । तमांसीव प्रभा भानोः, क्षिणोति समता क्षणात् ॥६५॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy