SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ૧૮૪ અધ્યાત્મપદ્ગમ સૂક્ત- રત્ન - મંજૂષા १३/२४ परिग्रहं चेद् व्यजहा गृहादेः, तत् किं नु धर्मोपकृतिच्छलात् तं । करोषि शय्योपधिपुस्तकादेः, गरोऽपि नामान्तरतोऽपि हन्ता ॥८४॥ १३/२७ रक्षार्थं खलु संयमस्य गदिता, येऽर्था यतिनां जिनैः, वासःपुस्तकपात्रकप्रभृतयो धर्मोपकृत्यात्मकाः । मूर्छन्मोहवशात् त एव कुधियां संसारपाताय धिक्, स्वं स्वस्यैव वधाय शस्त्रमधियां यद् दुष्प्रयुक्तं भवेत् ॥८५॥ १३/२८ संयमोपकरणच्छलात् परान्, भारयन् यदसि पुस्तकादिभिः । गोखरोष्ट्रमहिषादिरूपभृत्, तच्चिरं त्वमपि भारयिष्यसे ॥८६॥ १३/५५ विराधितैः संयमसर्वयोगेः, पतिष्यतस्ते भवदुःखराशौ । शास्त्राणि शिष्योपधिपुस्तकाद्या, भक्ताश्च लोका शरणाय नालम् ॥८७॥ १३/२९ वस्त्रपात्रतनुपुस्तकादिनः, शोभया न खलु संयमस्य सा । आदिमा च ददते भवं परा, मुक्तिमाश्रय तदिच्छयैकिकाम् ॥४८॥ १३/३२ यदत्र कष्टं चरणस्य पालने, परत्र तिर्यड्नरकेषु यत्पुनः । तयोमिथः सप्रतिपक्षता स्थिता, विशेषदृष्ट्याऽन्यतरं जहीहि तत् ॥८९॥ १३/३६ अणीयसा साम्यनियन्त्रणाभुवा, मुनेऽत्र कष्टेन चरित्रजेन च । यदि क्षयो दुर्गतिगर्भवासगासुखावलेस्तत् किमवापि नार्थितम् ? ॥१०॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy