SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ૧૮૦ અધ્યાત્મલ્પદ્રુમ સૂક્ત- રત્ન- મંજૂષા ८/११ तीव्रा व्यथाः सुरकृता विविधाश्च यत्र, क्रन्दारवैः सततमभ्रभृतोऽप्यमुष्मात् । किं भाविनो न नरकात् कुमते ! बिभेषि ?, यन्मोदसे क्षणसुखैर्विषयैः कषायी ॥५५॥ ८/१२ बन्धोऽनिशं वाहनताडनानि, क्षुत्तृड्दुरामातपशीतवाताः । निजान्यजातीयभयापमृत्युदुःखानि तिर्यक्ष्विति दुस्सहानि ॥५६॥ ८/१३ मुधाऽन्यदास्याभिभवाभ्यसूया, भियोऽन्तगर्भस्थितिदुर्गतीनाम् । एवं सुरेष्वप्यसुखानि नित्यं, किं तत्सुखैर्वा परिणामदुःखैः ? ॥५७॥ ८/१४ सप्तभीत्यभिभवेष्टविप्लवानिष्टयोगगददुःसुप्तादिभिः । स्यात् चिरं विरसता नृजन्मनः, पुण्यतः सरसतां तदानय ॥५८॥ १/२६ स्निह्यन्ति तावद्धि निजा निजेषु, पश्यन्ति यावन् निजमर्थमेभ्यः । इमां भवेत्रापि समीक्ष्य रीति, स्वार्थे न कः प्रेत्यहिते यतेत ? ॥५९॥ १०/२२ यैः क्लिश्यसे त्वं धनबन्ध्वपत्य यशःप्रभुत्वादिभिराशयस्थैः । कियानिह प्रेत्य च तैर्गुणस्ते ?, साध्य किमायुश्च ? विचारयैवम् ॥६०॥ १०/२१ ये पालिता वृद्धिमिताः सहैव, स्निग्धा भृशं स्नेहपदं च ये ते । यमेन तानप्यदयं गृहीतान्, ज्ञात्वाऽपि किं न त्वरसे हिताय ? ॥६१॥ १२/१५ पूर्णे तटाके तृषितः सदैव, भृतेऽपि गेहे क्षुधित: स मूढः । कल्पद्रुमे सत्यपि हि दरिद्रो, गुर्वादियोगेऽपि हि यः प्रमादी ॥६२॥ १२/१६न धर्मचिन्ता गुरुदेवभक्तिः , येषां न वैराग्यलवोऽपि चित्ते । तेषां प्रसूक्लेशफलः पशूनां, इवोद्भवः स्याद् उदरम्भरिणाम् ॥६३॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy