SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ૧૬૮ પ્રશમરતિ સૂક્ત- રત્ન- મંજૂષા १५४ अन्योऽहं स्वजनात् परिजनाच्च, विभवात् शरीरकाच्चेति । यस्य नियता मतिरियं, न बाधते तं हि शोककलिः ॥६६॥ १५५ अशुचिकरणसामर्थ्याद्, आधुत्तरकारणाशुचित्वाच्च । देहस्याशुचिभावः, स्थाने स्थाने भवति चिन्त्यः ॥१७॥ १५६ माता भूत्वा दुहिता, भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां, भ्रातृतां पुनः शत्रुतां चैव ॥६८॥ १५७ मिथ्यादृष्टिरविरतः, प्रमादवान् यः कषायदण्डरुचिः । तस्य तथाऽऽस्वकर्मणि, यतेत तन्निग्रहे तस्मात् ॥६९॥ १५८ या पुण्यपापयोरग्रहणे, वाक्कायमानसी वृत्तिः । सुसमाहितो हितः, संवरो वरददेशितश्चिन्त्यः ॥७०॥ १५९ यद्वद्विशोषणादुपचितोऽपि, यत्नेन जीर्यते दोषः । तद्वत् कर्मोपचितं, निर्जरयति संवृतस्तपसा ॥७१॥ १६० लोकस्याधस्तिर्यग्, विचिन्तयेदूर्ध्वमपि च बाहल्यम् । सर्वत्र जन्ममरणे, रूपिद्रव्योपयोगांश्च ॥७२॥ १६१ धर्मोऽयं स्वाख्यातो, जगद्धितार्थं जिनैः जितारिगणैः । येऽत्र रतास्ते संसार-सागरं लीलयोत्तीर्णाः ॥७३॥ १६२ मानुष्यकर्मभूम्यार्यदेशकुलकल्यताऽऽयुरुपलब्धौ । श्रद्धाकथकश्रवणेषु, सत्स्वपि सुदुर्लभा बोधिः ॥७४॥ १६३ तां दुर्लभां भवशतैः, लब्ध्वाऽतिदुर्लभा पुनर्विरतिः । मोहाद् रागात् कापथविलोकनाद् गौरववशाच्च ॥७५॥ १६८ धर्मस्य दया मूलं, न चाक्षमावान् दयां समादत्ते । तस्माद् यः क्षान्तिपरः, स साधयत्युत्तमं धर्मम् ॥७६॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy