SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १६ પ્રશમરતિ સૂક્ત- રત્ન - મંજૂષા પ્રશમરતિ સૂક્ત - રત્ન - મંજૂષા उमास्वातिकृतं प्रशमरतिप्रकरणं २ जिनसिद्धाचार्योपाध्यायान्, प्रणिपत्य सर्वसाधूश्च । प्रशमरतिस्थैर्यार्थं, वक्ष्ये जिनशासनात् किञ्चित् ॥१॥ ये तीर्थकृत्प्रणीता, भावास्तदनन्तरैश्च परिकथिताः । तेषां बहुशोऽप्यनुत्कीर्तनं, भवति पुष्टिकरमेव ॥२॥ दृढतामुपैति वैराग्य-भावना येन येन भावेन । तस्मिंस्तस्मिन् कार्यः, कायमनोवाग्भिरभ्यासः ॥३॥ प्रवचनभक्तिः श्रुतसम्पदुद्यमो व्यतिकरश्च संविग्नैः । वैराग्यमार्गसद्भाव-भावधीस्थैर्यजनकानि ॥४॥ ७८ यद्वत् कश्चित् क्षीरं, मधुशर्करया सुसंस्कृतं हृद्यम् । पित्तार्दितेन्द्रियत्वाद्, वितथमतिर्मन्यते कटुकम् ॥५॥ तद्वन्निश्चयमधुरम्, अनुकम्पया सद्भिरभिहितं पथ्यम् । तथ्यमवमन्यमाना, रागद्वेषोदयोवृत्ताः ॥६॥ ६४ भवकोटीभिरसुलभं, मानुष्यं प्राप्य कः प्रमादो मे ? । न च गतमायुर्भूयः, प्रत्येत्यपि देवराजस्य ॥७॥ आरोग्यायुर्बलसमुदयाः, चला वीर्यमनियतं धर्मे । तल्लब्ध्वा हितकार्ये, मयोद्यमः सर्वथा कार्यः ॥८॥ शास्त्राध्ययने चाध्यापने च, सञ्चिन्तने तथाऽऽत्मनि च । धर्मकथने च सततं, यत्नः सर्वात्मना कार्यः ॥९॥ १२० पैशाचिकमाख्यानं, श्रुत्वा गोपायनं च कुलवध्वाः । संयमयोगैरात्मा, निरन्तरं व्यापृतः कार्यः ॥१०॥ १८५
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy