SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ૧૫૯ શાંતસુધારસ સૂક્ત- રત્ન- મંજૂષા १४/५ अदधुः केचन शीलमुदारं, गृहिणोऽपि परिहृतपरदारम् । यश इह सम्प्रत्यपि शुचि तेषां, विलसति फलिताफलसहकारम् ॥१५॥ १४/६ या वनिता अपि यशसा साकं, कुलयुगलं विदधति सुपताकम् । तासां सुचरितसञ्चितराकं, दर्शनमपि कृतसुकृतविपाकम् ॥१६॥ १४/७ तात्त्विकसात्त्विकसुजनवतंसाः, केचन युक्तिविवेचनहंसाः । अलमकृषत किल भुवनाभोगं, स्मरणममीषां कृतशुभयोगम् ॥१७॥ १४/८ इति परगुणपरिभावनसारं, सफलय सततं निजमवतारम् । कुरु सुविहितगुणनिधिगुणगानं, विरचय शान्तसुधारसपानम् ॥१८॥ ~ करुणाभावना ~~ उपायानां लक्षैः कथमपि समासाद्य विभवं, भवाभ्यासात्तत्र ध्रुवमिति निबध्नाति हृदयम् । अथाकस्मादस्मिन् विकिरति रजः क्रूरहृदयो, रिपुर्वा रोगो वा भयमुत जरा मृत्युरथवा ॥१९॥ शृण्वन्ति ये नैव हितोपदेशं, न धर्मलेशं मनसा स्पृशन्ति । रुजः कथङ्कारमथापनेयाः, स्तेषामुपायस्त्वयमेक एव ॥१०॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy