SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ૧૫૬ શાંતસુધારસ સૂક્ત- રત્ન-મંજૂષા ५ सोऽयं ज्ञेयः पुरुषो लोकनामा, षद्रव्यात्माऽकृत्रिमोऽनाद्यनन्तः । धर्माधर्माकाशकालात्मसज्ञैः, द्रव्यैः पूर्णः सर्वतः पुद्गलैश्च ॥७२॥ ११/४ विनय ! विभावय शाश्वतं हृदि लोकाकाशम् । एकरूपमपि पुद्गलैः, कृतविविधविवर्तम् । काञ्चनशैलशिखरोन्नतं, क्वचिदवनतगर्तम् ॥७३॥ ११/५ क्वचन तविषमणिमन्दिरैः, उदितोदितरूपम् । घोरतिमिरनरकादिभिः, क्वचनातिविरूपम् ॥७४॥ ११/६ क्वचिदुत्सवमयमुज्ज्वलं, जयमङ्गलनादम् । क्वचिदमन्दहाहारवं, पृथुशोकविषादम् ॥५॥ ११/७ बहुपरिचितमनन्तशो, निखिलैरपि सत्त्वैः । जन्ममरणपरिवर्तिभिः, कृतमुक्तममत्वैः ॥७६॥ ११/६ इह पर्यटनपराङ्मुखाः, प्रणमत भगवन्तम् । शान्तसुधारसपानतो, धृतविनयमवन्तम् ॥७७॥ ~ बोधिदुर्लभभावना ~ यस्माद्विस्मापयितसुमनःस्वर्गसंपविलासप्राप्तोल्लासाः पुनरपि जनिः सत्कुले भूरिभोगे । ब्रह्माद्वैतप्रगुणपदवीप्रापकं निःसपत्नं, तहुष्प्रापं भृशमुरुधियः ! सेव्यतां बोधिरत्नम् ॥७८॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy