SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ શાંતસુધારસ સૂક્ત- રત્ન- મંજૂષા ૧૫૩ ७/५ उदितकषाया रे, विषयवशीकृता, यान्ति महानरकेषु । परिवर्तन्ते रे, नियतमनन्तशो, जन्मजरामरणेषु ॥४७॥ ७/६ मनसा वाचा रे, वपुषा चञ्चला, दुर्जयदुरितभरेण । उपलिप्यन्ते रे, तत आश्रवजये, यततां कृतमपरेण ॥४८॥ ७/८ मोदस्वैवं रे, साश्रवपाप्मनां, रोधे धियमाधाय । शान्तसुधारसपानमनारतं, विनय ! विधाय विधाय ॥४९॥ ~~ संवरभावना - संयमेन विषयाविरतत्वे, दर्शनेन वितथाभिनिवेशम् । ध्यानमार्त्तमथ रौद्रमजस्त्रं, चेतसः स्थिरतया च निरुन्ध्याः ॥५०॥ क्रोधं क्षान्त्या मार्दवेनाभिमानं, हन्या मायामार्जवेनोज्ज्वलेन । लोभं वारां राशिरौद्रं निरुन्ध्याः , संतोषेण प्रांशुना सेतुनेव ॥५१॥ शृणु शिवसुखसाधनसदुपायं, शृणु शिवसुखसाधनसदुपायम् । ज्ञानादिकपावनरत्नत्रयपरमाराधनमनपायम् ॥५२॥ ८/२ विषयविकारमपाकुरु दूरं, क्रोधं मानं सहमायम् । लोभं रिपुं च विजित्य सहेलं, भज संयमगुणमकषायम् ॥५३॥ ८/६ ब्रह्मव्रतमङ्गीकुरु विमलं, बिभ्राणं गुणसमवायम् । उदितं गुरुवदनादुपदेशं, संगृहाण शुचिमिव रायम् ॥५४॥ ८/७ संयमवाङ्मयकुसुमरसैरति-सुरभय निजमध्यवसायम् । चेतनमुपलक्षय कृतलक्षण-ज्ञानचरणगुणपर्यायम् ॥५५॥ ८/८ वदनमलङ्कुरु पावनरसनं, जिनचरितं गायं गायम् । सविनय ! शान्तसुधारसमेनं, चिरं नन्द पायं पायम् ॥५६॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy