SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ શાંતસુધારસ સૂક્ત- રત્ન- મંજૂષા ૧૪૯ २/६ सृजतीमसितशिरोरुहललितं, मनुजशिरः सितपलितम् । को विदधानां भूघनमरसं, प्रभवति रोर्बु जरसम् ?॥१२॥ २/७ उद्यत उग्ररुजा जनकायः, कः स्यात्तत्र सहायः ? । एकोऽनुभवति विधुरुपरागं, विभजति कोऽपि न भागम् ॥१३॥ २/८ शरणमेकमनुसर चतुरङ्गं, परिहर ममतासङ्गम् । विनय ! रचय शिवसौख्यनिधानं, शान्तसुधारपानम् ॥१४॥ ~ संसारभावना ~~ इतो लोभः क्षोभं जनयति दुरन्तो दव इवोल्लसल्लाभाम्भोभिः कथमपि न शक्यः शमयितुम् । इतस्तृष्णाऽक्षाणां तुदति मृगतृष्णेव विफला, कथं स्वस्थैः स्थेयं विविधभयभीमे भववने ? ॥१५॥ सहित्वा सन्तापानशुचिजननीकुक्षिकुहरे, ततो जन्म प्राप्य प्रचुरतरकष्टक्रमहतः । सुखाभासैर्यावत् स्पृशति कथमप्यर्तिविरति, जरा तावत्कायं कवलयति मृत्योः सहचरी ॥१६॥ ३/१ कलय संसारमतिदारुणं, जन्ममरणादिभयभीत ! रे । मोहरिपुणेह सगलग्रह, प्रतिपदं विपदमुपनीत ! रे ॥१७॥ ३/२ घटयसि क्वचन मदमुन्नतेः, क्वचिदहो ! हीनतादीन रे । प्रतिभवं रूपमपरापरं, वहसि बत कर्मणाऽऽधीन ! रे ॥१८॥ ३/५ व्रजति तनयोऽपि ननु जनकतां, तनयतां व्रजति पुनरेष रे । भावयन् विकृतिमिति भवगतेः, त्यजतमां नृभवशुभशेष रे ॥१९॥ ३/७ दर्शयन् किमपि सुखवैभवं, संहरंस्तदथ सहसैव रे । विप्रलम्भयति शिशुमिव जनं, कालबटुकोऽयमत्रैव रे ॥२०॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy