________________ 66 01 श्रीगच्छाचारप्रकीर्णकम् // 'उट्ठिहिति' उत्पद्यन्ते प्रकटीभवन्ति 'कषायाः' क्रोधादयः 'उदएवि'त्ति उत्पद्यमाना अपि यत्र 'रुंभेहिति' रुध्यन्ते क्षाम्यन्ते च यत्र स गच्छः // 19 // सील-तव-दाण-भावण-चउविहधम्मंतरायभयभीए | जत्थ बहू गीयत्थे, गोयम ! गच्छं तयं भणिअं ||100|| शीलतपोदानभावनाचतुर्विधधर्मान्तरायभयभीताः / यत्र बहवो गीतार्था गौतम ! गच्छः स भणितः // 100 // व्याख्या - दीयत इति दानं=सुपात्रानुकम्पादिकं 1, शीलम् अष्टादशधाऽब्रह्मवर्जनं 2, तप्यतेऽष्टप्रकारं कर्मानेनेति तपः रत्नावलीकनकावल्येकावलीमुक्तावलीश्रेणिवर्गधनप्रमुखषष्ट्यधिकशतत्रय-३६०भेदभिन्नं, उक्तञ्च श्रीगणिविद्याप्रकीर्णके "महा 1 भरणि 2 पुव्वाणि, तिण्णि उग्गा वियाहिया / . एएसु तवं कुज्जा, सब्भितरबाहिरं // 1 // तिण्णि सयाणि सट्ठाणि, तवोकम्माणि आहिया / उग्गनक्खत्तजोएसु, तेसुमन्नतरं करे // 2 // " [गणि० श्लो० 35-36] इति, भाव्यते संसारस्वरूपमनित्यत्वेन चिन्त्यतेऽनयेति भावना, इत्येवंरूपस्य चतुर्विधधर्मस्यान्तरायभयभीताः, सूत्रे तु बन्धानुलोम्यात् ‘सीलतवदाणभावण'त्ति, यत्रोक्तलक्षणा बहवो गीतार्थाः सूत्रार्थज्ञातारो भवन्ति हे गौतम ! स गच्छो भणितः / अत्रानुकम्पादाने जयराजोदाहरणं, सुपात्रदाने सुबाहुकुमारोदाहरणं, शीलेऽनङ्गलेखोदाहरणं, तपसि स्कन्धककालीदेव्याद्युदाहरणं, भावनायां भरतोदाहरणं वाच्यमिति // 100 // उक्तमुत्तमगणस्वरूपम्, अथाधमाधमगणस्वरूपमाह - जत्थ य गोयम ! पंचण्ह, कहवि सूणाण इक्कमवि हुज्जा | तं गच्छं तिविहेणं, वोसिरिअ वइज्ज अन्नत्थ ||101 / /