SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 38 for श्रीगच्छाचारप्रकीर्णकम् // संयमः प्रत्युपेक्षणा-प्रमार्जनादिलक्षणः साधुव्यापारस्तत्पालनार्थं, बुभुक्षित एनं कर्तुं न शक्नोतीति कृत्वा 4, तथा प्राणा: जीवितं तेषां वृत्त्यर्थं रक्षार्थं परिपालननिमित्तमित्यर्थः 5, षष्ठं पुनर्धर्मचिन्तार्थम्, सूत्रार्थानुचिन्तनादिलक्षणं शुभचित्तप्रणिधानं, एतदपि बुभुक्षितः कर्तुं न शक्नोतीति कृत्वा भुञ्जीतेति शेषः 6 // 59 // जत्थ य जिठ्ठ-कणिट्ठो, जाणिज्जइ जिंट्ठवयणबहुमायो / दिवसेणवि जो जिट्ठो, न य हीलिज्जइ स गोअमा ! गच्छो // 60|| यत्र च ज्येष्ठः कनिष्ठो ज्ञायते ज्येष्ठवचनबहुमानः / दिवसेनापि यो ज्येष्ठो, न च हील्यते स गौतम ! गच्छः // 60 // व्याख्या - यत्र गणे 'ज्येष्ठः' व्रतपर्यायेण वृद्धः 'कनिष्ठः' दीक्षापर्यायेण लघुः, चशब्दान्मध्यमपर्यायोऽपि, ज्ञायते=अयं ज्येष्ठः अयं लघुः अयं मध्यमः इत्येवं प्रकटत्वेन विज्ञायते, कस्मात् ज्ञायते ? - ज्येष्ठवचनबहुमानात् हे आर्य ! हे पूज्य ! हे भदन्त ! हे पसाउकरी ! इत्यादिजल्पनात्, यद्वा ज्येष्ठस्य पर्यायगुणैर्वृद्धस्य वचनम् आदेशो ज्येष्ठवचनम् तस्य तस्मिन् वा बहुमानं सन्मानं यत् पूज्यैः प्रतिपादितं तत्तथेत्येवं ज्ञायत इति, तथा यत्र दिवसेनापि यो ज्येष्ठः स न हील्यते वचनोल्लङनसम्मुखजल्पन-मर्मोद्घाटनादिप्रकारेण चकाराद् यत्र पर्यायेण लघुतरोऽपि गुणवृद्धो न हील्यते, वज्रं प्रति सिंहगिरिशिष्यरत्नवृन्दवत् हे गौतम ! स गच्छ इति // 60 // अथाऽऽर्याधिकारमाह - जत्थ य अज्जोकप्पो, पाणच्चाएवि रोरदुभिक्खे | न य परिभुंजइ सहसा, गोयम ! गच्छं तयं भणियं ||61|| यत्र चार्याकल्पः प्राणत्यागेऽपि रौरदुर्भिक्षे / न च परिभुज्यते सहसा, गौतम ! गच्छः स भणितः // 61 // व्याख्या - यत्र च गणे आर्याकल्प: साध्व्यानीतं रोरदुर्भिक्षे प्राणत्यागेऽपि 'सहस'त्ति सिद्धान्तोक्तविधिमकृत्वा न परिभुज्यते, यद्वा यत्र च गणे आर्याकल्पः= 1. 'जेट्ठवयण' इति E-प्रते, 'जेट्ठविणय-बहुमाणा' D-F-G-H-प्रते, अत्र पुनः A-B-C-प्रतपाठः / 2. 'कप्पं' D-F-G-H-प्रते / 3. 'परिभज्जई' E-F-प्रते / -
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy