SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् . जे अ न अकित्तिजणए, नाऽजसजणए, नाऽकज्जकारी य / न पवयणुड्डाहकरे, कंठग्गयपाणसेसेऽवि ||55|| ये च नाकीर्तिजनका नायशोजनका नाकार्यकारिणश्च / न प्रवचनोड्डाहकराः कण्ठगतप्राणशेषेऽपि // 55 // व्याख्या - 'ये' गणमुनयः नाकीर्तिजनकाः नायशोजनकाः, चकारान्नावर्णजनकाः, नाशब्दजनकाः, नोऽश्लाघाजनकाः, तत्र सर्वदिग्व्याप्यसाधुवादोऽकीर्तिः, अयशो=निन्दनीयतादि, एकदिग्व्याप्यसाधुवादोऽवर्णः, अर्द्धदिग्व्याप्यसाधुवादोऽशब्दः, तत्स्थान एवासाधुवादोऽश्लाघेति, 'नाकार्यकारिणः' नासदनुष्ठानकर्तारः 'न प्रवचनोड्डाहकराः' न प्रवचनमालिन्यकर्तारः, कण्ठे गतः प्राप्त आगत इत्यर्थः कण्ठगतः प्राणानां-जीवस्य शेषो यत्र, अधस्तनप्रदेशाकर्षणेन बहुप्रदेशबहिःकर्षणेन, एवंविधेऽप्यवसरे ये ईदृग्विधास्ते सुन्दरान्तेवासिनः, यद्वा कण्ठगतः कण्ठागतः प्राणस्य बलस्य शेषो यत्र, एवंविधेऽप्यवसरे ये ईदृग्विधास्ते धन्या इति // 55 // गुरुणा कज्जमकज्जे खर-ककस-दुठ्ठ-निहुरगिराए / भणिए तहत्ति सीसा भणंति तं गोयमा ! गच्छं // 56 / / गुरुणा कार्याकार्ये खरकर्कशदुष्टनिष्ठुरगिरा। भणिते तथेति शिष्याः, भणन्ति स गौतम ! गच्छः // 56 // व्याख्या - 'गुरुणा' स्वाचार्येण कार्य चाकार्यं च कार्याकार्यं तस्मिन्, मकारोऽलाक्षणिकः, यत्कृत्यं गुरवो जानन्ति शिष्योऽपि जानाति तत्कार्यमुच्यते, यत्कृत्यं गुरवो जानन्ति न तु शिष्यः तदकार्यं, अन्यथोत्तमानां किमपि बाह्यान्तरकार्यं विना जल्पनं न संभवतीति, यद्वा कार्य सनिमित्तं अकार्यं प्रधाननिमित्तरहितमिति / 'खरकर्कशदुष्टनिष्ठुरगिरा' पूर्वोक्तशब्दार्थया 'भणिते' कथिते सति 'तहत्ति'त्ति तथेति यथा येन प्रकारेण यूयं वदथ तथा तेन प्रकारेणेति 'शिष्याः' सुविनेयाः ‘भणन्ति' कथयन्ति यत्र तं गच्छं हे गौतम ! त्वं जानीहीति, सिंहगिरिगुरुशिष्यवदिति // 56 // - - - - - - - - 1. 'सीसे' F-G-प्रतपाठः / - - - - - - - - - - - - - - - - - - - - - -
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy