________________ 24 0 श्रीगच्छाचारप्रकीर्णकम् 19 अथ संविज्ञपाक्षिकस्य साधुविषये किञ्चित्कृत्यं दर्शयन् आह - सम्मग्गमग्गसंपट्ठिआण, साहूण कुणइ वच्छल्लं / ओसहभेसज्जेहि य, सयमन्नेणं तु कारेई ||35|| सन्मार्गमार्गसंप्रस्थितानां, साधूनां करोति वात्सल्यम् / औषधभैषज्यैश्च स्वयं अन्येन तु कारयति // 35 // व्याख्या - 'सन्मार्गमार्गसंप्रस्थितानां' प्रधानमार्गपरम्पराप्रवृत्तानां 'साधूनां' जगदुत्तममुनीनां 'करोति' निर्जरार्थं विधत्ते 'वात्सल्यं' अन्तरङ्गभावेनोपकारकरणं, कैः ? - 'औषधभेषजैः' तत्रौषधम् अनेकद्रव्यसंयोजितं तद्व्यतिरिक्तं भेषजं, यद्वा औषधं हरीतक्यादि भेषजं पेयादि, चशब्दोऽनेकप्रकारभावसूचकः, 'स्वयं' आत्मना 'अन्येन' आत्मव्यतिरिक्तेन कारयति तुशब्दात्कुर्वन्तमन्यमनुजानाति यः स संविग्नपाक्षिक आराधको ज्ञेय इत्याशयः // 35 // किञ्च - भूए अत्थि भविस्संति, केइ तेलुक मिअकमजुअला | जेसिं परहिअकरणिकबद्धलक्खाण वोलिही कालो ||36|| भूताः सन्ति भविष्यन्ति, केचित् त्रैलोक्यनतक्रमयुगलाः / येषां परहितकरणैकबद्धलक्षाणां गमिष्यति कालः // 36 / / व्याख्या - 'भूताः' अतीतकाले 'अत्थि'त्ति 'सन्ति' विद्यन्ते वर्तमानकाले 'भविष्यन्ति' भविष्यत्काले 'केचित्' अल्पाः संविग्नपाक्षिकाः, किंभूताः ?-त्रैलोक्येनस्वर्गमर्त्यपाताललक्षणेन तन्निवासिप्राणिगणेनेत्यर्थः नतं क्रमयुगलं चरणयुग्मं येषां ते त्रैलोक्यनतक्रमयुगलाः, 'येषां' सत्पुरुषाणां संविग्नपाक्षिकाणां, पुनः किंभूतानां ? - 'परहितकरणैकबद्धलक्षाणां' परस्मै अन्यस्मै हितं परहितं परहितस्य करणं परहितकरणं तस्मिन् एकम् अद्वितीयं बद्धं लक्ष आलोचनलक्षणं यैस्ते परहितकरणैकबद्धलक्षम्, 'लक्षिण आलोचने' इति, यद्वा-परहितकरणे एकं बद्धं 1. 'दर्शय इत्याह' इति C-प्रते, 'दर्शयतीत्याह' इति B-प्रते, 'दर्शयन् इत्याह' इति पूर्वमुद्रिते, अत्र A-प्रतपाठः / 2. 'कारेई' H-प्रते / 3. 'तेलोक्क०' H-प्रते / 4. ०नमंसणीय०' D-E-F-G-H | 5. 'जुयले' H-आदिषु / 6. '०करणेक्क०' H-आदिषु / 7. 'लक्षणं आलोचनं' इति पूर्वमुद्रिते, अत्र A-B-C-प्रत पाठः /