________________ 6 श्रीगच्छाचारप्रकीर्णकम् // दोषयुक्तस्यापि साधोः 'वीर्य' जीवोत्साहरूपं समुच्छलेत्, अहमपि जिनोक्तक्रियां करोमि येन दुष्टदुःखसागरान्मुञ्चामीत्यर्थः, षष्ठाङ्गोक्तशेलकाचार्यवत् // 5 // वीर्योच्छलने फलमाह-वीर्येण तु जीवस्य समुच्छलितेन हे गौतम ! 'जन्मान्तरकृतानि' बहुभवोपार्जितानि 'पापानि' ज्ञानावरणादिदुष्कर्माणि 'प्राणी' आसन्नमोक्षकः 'मुहूर्तेन' अन्तर्मुहूर्तमात्रेण 'निर्दहेत्' भस्मसात्कुर्यादित्यर्थः, स्कन्धकाचार्यशिष्यदृढप्रहारि-मरुदेव्यादिवदिति // 6 // यस्मादालस्यवतामपि सद्गणे एते गुणास्तस्मात् 'निपुणं' आत्ममोक्षकरं यथा स्यात्तथा 'निभाल्य' ज्ञानचक्षुषाऽवलोक्य 'गच्छं' गणं 'सन्मार्गप्रस्थितं' जिनोक्तमार्गव्यवस्थितं 'वसेत्' गुर्वाज्ञापूर्वकं निवासं कुर्यादित्यर्थः, 'तत्र' सद्गणे जन्म मर्यादीकृत्य 'आजन्म' यावज्जीवमित्यर्थः 'हे गौतम !' 'संयतः' षड्जीवपालनतत्परः 'मुनिः' गुर्वभिप्रायाऽऽगमवेत्ता // 7 // अथ सद्गणः सदाचार्येणैव भवति, अतः सदाचार्यलक्षणमाह - मेढी आलंबणं खंभं, दिठ्ठी जाणं सुउत्तिमं / सूरी जं होइ गच्छस्स, तम्हा तं तु परिक्खए ||8|| मेढिरालम्बनं स्तम्भो दृष्टिर्यानं सुयुक्तिमान् / सूरिर्यस्माद्भवति गच्छस्य तस्मात्तं तु (एव) परीक्षेत / / 8 / / व्याख्या - 'मेढी'त्ति मेढिः पशुबन्धार्थं खलमध्ये स्थूणा, यथा तया बद्धानि बलीवादिवृन्दानि मर्यादया प्रवर्त्तन्ते / 'आलम्बनं' यथा गर्तादौ पतज्जन्तोर्हस्ताद्याधार आलम्बनं तथा भवगतयां पततां भव्यानामाचार्य आलम्बनं, कामातुरस्वशिष्यं प्रति नन्दिषेणवत् / 'खंभं' यथा स्तम्भो गृहाधारो भवति तथाऽऽचार्यः साधुसंयमगृहाधारः, मेघसंयमगृहं प्रति श्रीवीरवत् / 'दिठ्ठी ति नेत्रम्, यथा नेत्रेण हेयोपादेयं विलोक्यते तथाऽऽचार्यरूपनेत्रेण हेयोपादेयं ज्ञायते प्रदेशिवत् / ‘यानं' यानपात्रम्, 1. 'सुउत्तम' पूर्वमुद्रिते / 2. 'सूरी उ' F-प्रते /