________________ // श्रीशद्धेश्वरपार्श्वनाथाय नमः॥ // तस्स भुवणेक्कगुरुणो णमो अनेगंतवायस्स // // परमपूज्यसुविहितश्रुतस्थविरपरम्परायै नमः // // तपागच्छाचार्यश्री-प्रेम-भुवनभानु-जयघोष-जितेन्द्र-गुणरत्न-रश्मिरत्नसूरिसद्गुरुभ्यो नमः // पूज्यवानर्षिगणिविरचितवृत्तिसमलङ्कृतम् // श्रीगच्छाचारप्रकीर्णकम् / श्रीपार्श्वजिनमानम्य, तीर्थाधीशं वरप्रदम् / गच्छाचारे गुरोर्ज्ञातां, वक्ष्ये व्याख्यां यथाऽऽगमम् // 1 // शास्त्रस्यादौ प्रयोजनाभिधेयसम्बन्धमङ्गलान्यभिधातव्यानि, तत्र प्रयोजनमनन्तरपरम्परभेदाद् द्विधा, पुनरेकैकं कर्तृश्रोतृभेदाद् द्विधा, तत्र गच्छाचारप्रकीर्णककर्तुरनन्तरप्रयोजनं शिष्यावबोधः, परम्परं त्वपवर्गप्राप्तिः, श्रोतुरप्यनन्तरं तदर्थावगमः, परम्परं तु मुक्तिपदप्राप्तिः 1, अभिधेयं तु गच्छाचारः, तस्यैव भणिष्यमाणत्वात् 2, सम्बन्धश्चोपायोपेयभावलक्षणः, तत्र वचनरूपापन्नमिदमेव गच्छाचारप्रकीर्णकमुपायः, उपेयं तु तदर्थपरिज्ञानम् 3, मङ्गलं द्विधा द्रव्यभावभेदात्, तत्र द्रव्यमङ्गलं पूर्णकलशादि, तद् अनैकान्तिकत्वात् मुक्त्वा भावमङ्गलं तु शास्त्रकर्तुरनन्तरोपकारित्वादभीष्टदैवतस्य वर्द्धमानस्वामिनो नमस्कारद्वारेणाह - नमिऊण महावीरं, तियसिंदनमंसिअं महाभागं / गच्छाचारं किंची, उद्धरिमो सुअसमुद्दाओ ||1|| नत्वा महावीरं त्रिदशेन्द्रनमस्यितं महाभागम् / गच्छाचारं किञ्चिदुद्धरामः श्रुतसमुद्रात् // 1 // व्याख्या - 'नत्वा' प्रणम्य, कम् ?-महांश्चासौ वीरश्च महावीरस्तं महावीरम्, किंविशिष्टम् ?-त्रिदशा: सुमनसस्तेषामिन्द्रैः ईशैर्नमस्यितं नमस्कृतं 'महाभागं' विश्वविख्यातचतुस्त्रिंशन्महाऽतिशयविराजमानं अचिन्त्यशक्त्यन्वितं वा, गच्छस्य भावमुनिवृन्दस्य आचारो=ज्ञानाचारादिः गणमर्यादारूपो वा तं गच्छाचारं 'किञ्चित्'