________________ 128 for श्रीगच्छाचारप्रकीर्णकम् खर्जूरीपत्रेन मुञ्जेन य उपाश्रयं प्रमार्जयति / न दया तस्य जीवेषु, सम्यग् जानीहि गौतम ! // 76 / / __ (प्र.अ.) - 'खज्जूर०' इत्यादि, खजूरीवृक्षस्य पत्राणि, तेषां पत्राणां सारवणकं प्रमार्जनकं निर्माप्य च पुनर्मुजवृक्षस्य प्रमार्जनं निर्माप्य तैर्यः उपाश्रयं प्रमार्जयति साधुरिति तस्य हृदये जीवानामुपरि दया = कृपा नास्ति / एतत् सम्यक् पूर्वं विजानीहि हे गौतम ! तस्य हृदये जीवदयाधर्मो न हि // 6 // (द्वि.अ.) - 'खज्जूर०' इत्यादि, खर्जूरपत्रमुञ्जमयेन प्रमार्जनेन यः साधुरुपाश्रयं प्रमार्जयति तस्य जीवेषु = प्राणिषु दया नास्ति / हे गौतम ! तत् सम्यग् जानीहि // 76 // जत्थ य बाहिरपाणिअ-बिंदूमित्तंपि गिम्हमाईसु | तण्हासोसिअपाणा, मरणेऽवि मुणी न गिण्हंति |77|| यत्र च बाह्यपानीयबिन्दुमात्रमपि ग्रीष्मादिषु / तृष्णाशोषितप्राणाः, मरणेऽपि मुनयो न गृह्णन्ति // 77 / / (प्र.अ.) - 'जत्थ०' इत्यादि, यत्र स्थानके हे गौतम ! बाह्यपानीयम् = सचित्तनीरम् अप्रासुकं वारि ग्रीष्मकालेऽपि तृषाशोषितप्राणा मुनयो बिन्दुमात्रमपि न गृह्णन्तीति गाथार्थः स्पष्ट इति, स गच्छः // 77 // (द्वि.अ.) - 'जत्थ०' इत्यादि, यत्र = गच्छे बाह्यपानीयं = सचित्तं वारि ग्रीष्मादिषु विहरन्तो मुनयस्तृष्णाशोषितप्राणाः = तृष्णाशोषितवदनाः मरणान्तेऽपि बिन्दुमात्रं न गृह्णन्ति स गच्छः // 77 // इच्छिज्जइ जत्थ सया, बीयपएणावि फासुअं उदयं / आगमविहिणा निउणं, गोअम ! गच्छं तयं भणियं |78|| इष्यते यत्र सदा द्वितीयपदेनापि प्रासुकमुदकम् / आगमविधिना निपुणं, गौतम ! गच्छः स भणितः // 78 // - - - - - - - - - - - - - - - - - - - - 1. 'बायर०' E-प्रते / 2. 'पाणस्स बिंदमि०' F-प्रते / 3. 'पाणे' F-प्रते /