SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 7 श्रीगच्छाचारप्रकीर्णकम् .. मूलुत्तरगुणब्मटुं, सामायारीविराहयं / अदिन्नालोयणं निच्चं, निच्चं विगहपरायणं ||11|| मूलोत्तरगुणभ्रष्टं, सामाचारीविराधकम् / अदत्तालोचनं नित्यं, नित्यं विकथापरायणम् // 11 // (प्र.अ.) - 'मूलु०' इत्यादि, मूलगुणाः = पञ्चमहाव्रतादयः, उत्तरगुणाः = चरणकरणसप्ततिप्रभृतयस्तेभ्यः परिभ्रष्टम्, पुनः किम्भूतम् ? सामाचारी = इच्छामिच्छेत्यादिरूपा ओघरूपा च, तस्या विराधकम्, नित्यमदत्तालोचना यस्य स अदत्तालोचनस्तम्, अन्यस्मै स्वपापानि न कथयति, नित्यं विकथापरायणम्, एवंविधमाचार्यमुन्मार्गगामिनं हे शिष्य जानीया इति // 11 // (द्वि.अ.) - 'मूलु०' इत्यादि, मूलोत्तरगुणभ्रष्टम्, सामाचारीविराधकम्, नित्यमदत्तालोचनम् = दत्ताऽऽलोचना येन स दत्तालोचनः, न दत्तालोचनोऽदत्तालोचनस्तम्, स्वपापं नान्यस्मै कथयति, तथा नित्यं विकथापरायणम् एवंविधमाचार्यमुन्मार्गगामिनं जानीयात् // 11 // छत्तीसगुणसमण्णागएण तेणवि अवस्स कायव्वा। . परसक्खिया विसोही, सुटुवि ववहारकुसलेण ||12|| षट्त्रिंशद्गुणसमन्वागतेन तेनापि अवश्यं कर्तव्या। परसाक्षिका विशोधिः सुष्ट्वपि व्यवहारकुशलेन // 12 / / (प्र.अ.) - 'छत्तीस०' इत्यादि, षट्त्रिंशद्गुणसमन्वागतेन सुष्ठ = अतिशयेन जीतव्यवहारकुशलेन = जीतआलोचनाग्रन्थनिपुणेन परसाक्षिकी विशोधिः तेनापि = आचार्येण अवश्यं कर्तव्येति // 12 // (द्वि.अ.) - 'छत्तीस०' इत्यादि, षट्त्रिंशद्गुणसमन्वागतेन सुष्ठ = अतिशयेन जीतादिव्यवहारकुशलेन = आलोचनाग्रंथकुशलेन परसाक्षिकी विशोधिः = आलोचना तेनापि = आचार्येण अवश्यं कर्त्तव्या // 12 // 1. 'दायव्वा' A-B-C-D-E-F-G-H, अत्र श्रीवानषिगणिविरचितवृत्त्याः हस्तादानुसारेण 'कायव्वा' इति /
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy