SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ for श्रीवानर्षिगणिविहितवृत्तियुतम् l 75 वा 'कथयति' वचनविलासेन विस्तारयतीत्यर्थः, 'काहीया'त्ति 'कथिका' कथाकथिकाऽऽर्या / तथा या च तरुणादीन् पुरुषान् 'अहिवडते'त्ति 'अभिमुखमागच्छतः' सन्मुखमागच्छमानान् 'अनुजानाति'=आगम्यतां, भवतामागमनं भव्यं, भव्यमस्मदीयस्थानजातं स्थीयतां, गमनप्रस्तावे पुनरागमनं विधेयं, परत्वं न चिन्तनीयं, अस्मद्योग्यं कार्यं ज्ञाप्यमित्यादिकं वचनाडम्बरं करोतीत्यर्थः, सामुण्डी, इकारः पादपूरणे, प्रत्यनीकमिव प्रतिसैन्यमिव या सा प्रत्यनीका गुरुगच्छसङ्घप्रवचनस्य प्रतिकूलविधानादिति // 115 // किञ्च - वुड्डाणं तरुणाणं, रत्तिं अज्जा कहेइ जा धम्मं / सा गणिणी गुणसायर ! पडिणीआ होइ गच्छस्स ||116|| वृद्धानां तरुणानां रात्रौ आर्या कथयति या धर्मं / सा गणिनी गुणसागर ! प्रत्यनीका भवति गच्छस्य // 116 / / व्याख्या - 'वृद्धानां' जराजीर्णानां पुरुषाणां 'तरुणानां' मन्मथवयःप्राप्तानां उपलक्षणत्वान्मध्यमवयःप्राप्तानां 'रत्ति'ति रात्रौ निशायां याऽऽर्या कथयति धर्मं सा 'गणिनी' मुख्यसाध्वी हे गुणसागर ! प्रत्यनीका भवति गच्छस्य / यदि च गणिन्याः पुंसां रात्रौ धर्मकथने गणस्य प्रत्यनीकत्वं जायते तदाऽन्यसाध्वीनां का कथा ?, ननु विशेषतरं भवति प्रत्यनीकत्वमिति // 116 // जत्थ य समणीण-मसंखडाई गच्छंमि नेव जायंति / तं गच्छं गच्छवरं, गिहत्थभासाउ नो जत्थ ||117|| यत्र च श्रमणीनामसंखडानि गच्छे नैव जायन्ते / स गच्छः गच्छवरः गृहस्थभाषास्तु न यत्र // 117 / / व्याख्या - यत्र-गणे, चात् सङ्घाटकेऽपि 'श्रमणीनां' मोक्षमार्गप्रवृत्तसाध्वीनां 'असंस्कृतानि' परस्परं गृहस्थसार्द्ध वा स्वगणमुनिसार्द्ध स्वसङ्घाटकमुनिवर्गसार्द्ध वा कलहगालिप्रदानावर्णवादादीनि 'नैव जायन्ते' कदाऽपि नैवोत्पद्यन्ते तं 'गच्छं' गणं 'गच्छवरं' गणप्रधानम्, तथा च यत्र गणे 'गृहस्थभाषा:' पूर्वोक्तसावद्यरूपाः, यद्वा
SR No.032876
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorYashratnavijay
PublisherJingun Aradhak Trust
Publication Year182
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_gacchachar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy