SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 62 सटीकाद्वैतदीपिकायाम् दन्यत्वात् / जीवस्य परमात्मशरीरत्वाभावाच्च / न हि जीवः परस्यभोगायतनम्। न च साक्षात्प्रयत्नाधिष्ठेयत्वात् तच्छरीरत्वं / अङगुल्यादेरपि साक्षात्प्रयत्ना. धिष्ठेयत्वात् अन्त्यावयवित्वस्य जीवेऽभावात् / ब्रह्मणि प्रयत्नाभावाच्च / उपासनापरत्वं तु बहुधाऽऽचार्यैरेव निरस्तमिति न निराक्रियते / अतो लक्षणया सोऽय. मिति वाक्यवत् तत्त्वमस्यादिवाक्यमखण्डार्थनिष्ठमिति तदर्थसाक्षात्कारानिरतिशयान दब्रह्मावाप्तिरूपा मुक्तिः ब्रह्म वेद ब्रह्मव भवतीति श्रुतेः। तस्मादहमनुभवगोचरातिरिक्तं अकत्रभोक्तृस्वभावस्वप्रकाशोत्मकं अविद्यया विभक्त मिग प्रतीयमानं त्वंपदलक्ष्यमुद्दिश्योपनिषदस्य मायया जगदुपादाननिमित्तभूतस्य वस्तुतो निविशेषस्य सत्यज्ञानानन्दानन्तात्मनः तत्पदलक्ष्यस्य स्वरूपमाषाभेदो महावाक्येन प्रतिपाद्यत इति सिद्धम् / श्रुतिरयमिति वक्तु यन्न शक्नोति यस्मिन् वटतरुतलवासी मौनमास्ते महीयान् / अतुलनिजविभूतेस्तस्य देवस्य भूयात नरमृगवपुषोऽयं प्रीतयेऽद्वैतदोपः // 1 // वाचकपदस्य तद्यक्ते शरीरिणि प्रवृत्तिः। न च तदस्ति जीवे शरीरलक्षणाभावादित्याह-जीवस्येति। ननु साक्षात्प्रयत्नजन्यव्यापारवत्त्वमेव शरीरलक्षणं तच्च जीवेऽप्यस्ति तस्यापि साक्षादीश्वरप्रयत्नाधिष्ठेयत्वादित्याशङ्क्याह-न च साक्षादिति / अङ्गल्यादेरपीति / तथा च शरीरतदवयवयोः भेदात् अवयवेऽतिव्याप्तिरित्यर्थः। अन्त्यावयवित्वे सतीति विशेषणान्नोक्तदोष इत्याशङ्क्याह-अन्त्यावयवित्वस्येति / औपनिषदत्ववादे ब्रह्मणि नित्यस्य चानित्यस्य च प्रयत्नस्य निरासाच्च न तत्प्रयत्नाधिष्ठेयता जीवस्येत्यभिप्रेत्याह-ब्रह्मणीति / महावाक्यानामर्थान्तरानिरूपणात् पारिशेष्यादखण्डार्थत्वं सिद्धमित्याह-अत इति / वादिविप्रतिपत्तिनिराकरणेन वेदान्तानामखण्डार्थत्वनिर्धारणे. नास्य प्रकरणस्य परमप्रयोजनमाह-इति तदर्थेति / परिच्छेदचतुष्टयस्यकवाक्यतां दर्शयन् तदर्थमुपपादितमुपसंहरति-तस्मादिति / यतः ईश्वरप्रीत्यर्थ एव स्वधर्मः वीर्यवत्तरो भवति अतो मननात्मकस्वधर्माचरणरूपग्रन्थमीश्वरे समर्पयति-श्रतिरयमिति / निरपेक्षश्रुतिरपि अयमिति अमुकस्वरूप इति वक्तुं शक्त्या बोधयितुं न शक्नोति / यस्मिन् विषये महीयान् महेश्वरोऽपि वक्तुमसमर्थः वटतरुमूलमाश्रित्य मौनं यथा तथाऽस्ते अतः अतुलनिजविभूतेः निरतिशयस्वाभाविकमहिमापन्नस्य' नरमृगवपुषः प्रत्यक्पराभिन्नाखण्डचिद्रूपस्य प्रीतये अयं अद्वैतदीपो भवत्वित्यर्थः /
SR No.032854
Book TitleAdwait Dipika Part 03
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1987
Total Pages96
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy