SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः लोकेऽपि अखण्डार्थकं वाक्यमस्तीत्यत्र तदुक्तो दृष्टान्तः-भिन्नोघटः अभिन्नोघटः इति / अत्र भिन्न इत्यस्य मेदवान् इत्यर्थकरणे भेदस्यघटेन साकं भेदो वक्तव्यः संबन्धस्य मेदनिष्ठत्वात् भेदभेदस्याप्येवमित्यनन्तभेदप्रवाहापत्तिः अतो भेदो घटस्वरूपमेवेति सिद्धमखण्डार्थत्वम् / एवं भिन्न इत्यत्र-शास्त्रेऽपि व्याकरणे 'प्रातिपदिकार्थे प्रथमा' इत्युक्तेः प्रथमार्थो घटादिरेव प्रातिपदिकार्थः घटः इति प्रयोगात् / अतःप्रातिपदिकार्थप्रथमार्थयोरभेदः तस्यासंसर्गत्वात् अखण्डार्थ एव / शाब्दबोधे च भाट्टाः अभिहितान्वयबोधं स्वीकुर्वन्ति, तस्य अभिहितपदार्थकरणकबोध इत्यर्थः / तन्मते पदजन्यस्मृत्यनुभवविलक्षणज्ञानविषयीभूताः पदार्था अभिहिता उच्यन्ते / ताश्चाकांक्षानुसारेण स्वान्वयमनुभावयन्ति इति वाक्यार्थो लक्ष्य उच्यते। पदार्थेन पदार्थलक्षणार्थं पूर्वसबन्धज्ञानापेक्षा। वाक्यार्थलक्षणायां तु न तदपेक्षा। एवं च पदराक्तेः पदार्थोपस्थितावेवोपक्षयात् उपस्थितानां च पदार्थानुभवजनकत्वात् सर्वपदलाक्षणिकत्वे च न महावाक्यादखण्डानुभवानुपपत्तिः। विवरणाचार्याः अन्विताभिधानपक्षमेवाश्रयन्ते। तन्मते पदानामन्वयानुभवजननसामर्थ्य मेव शक्तिः एकैकपदार्थोपस्थितिः एकसंबन्धिज्ञानमिति रीत्या साध्या / एवं च पदार्थोपस्थितेः पदशक्त्यसाध्यत्वात् अर्थाध्याहार आश्रितः घटेन जलमाहरेत्यादौ च्छिद्रेतरत्वादेः योग्यतया उपस्थितस्य शाब्द ोधे भानम् अस्मिन् मते पदयुगलात् स्मृतियुगलमेव जन्यते तेन च वाक्यार्थस्याखण्डस्य बोधः इति विशेषः। अखण्डात विध्यम् अत्राद्वैतसिद्धिकाराः सोऽयमखण्डार्थो द्विविधः आद्य पदार्थनिष्ठःद्वितीयः वाक्यार्थनिष्ठः। उभयमपि लौकिकवैदिकभेदेन द्विविधम् / वैदिक पदार्थनिष्ठं तत्पदार्थनिष्ठं त्वंपदार्थनिष्ठमिति द्विविधम् / तत्र च तत्पदार्थनिष्ठ सत्यं ज्ञानमनन्तं ब्रह्म विज्ञानमानन्दं ब्रह्मेत्यादि / त्वंपदार्थनिष्ठं तु योऽयं विज्ञानमयः प्राणेषहृद्यन्तर्योति: पुरुषः-इत्यादिः। .. पदार्थनिष्ठं अखण्डार्थत्वं महावाक्यघटकपदार्थयोः भेदबुध्यविरोधित्वे सति अखण्डार्थनिष्ठत्वं उक्तभेदबुद्धिविरोधित्वे सति अखण्डायनिष्ठत्वं महावाक्यार्थनिष्ठमखण्डार्थत्वमिति भेदः। लौकिकं तु लम्बकर्णो देवदत्त इति पदार्थनिष्ठं सोऽयं देवदत्त इति वाक्यार्थनिष्ठम् यद्वा अपर्याययोः प्रातिपदिकयोः एकस्मिन् प्रातिपदिकार्थे पर्यवसायित्वं अखण्डार्थत्वमिति लक्षणम् / तत्र सत्यज्ञानमनन्तं ब्रह्मेति वाक्यं लक्षणवाक्यत्वात् अखण्डार्थम् तन्मात्रप्रश्नोत्तरत्वाद्वा इति पदार्थनिष्ठाखण्डार्थत्वे न्यायप्रयोगः। वाक्यार्यनिष्ठे तु तत्त्वमस्यादिवाक्यमखण्डार्थनिष्ठं आत्मस्वरूपमात्रनिष्ठं वा अकार्यकारणद्रव्यमात्रनिष्ठत्वे सति समानाधिकरणत्वात् तन्मात्रप्रश्नोत्तरत्वाद्वा सोऽयं देवदत्त इत्यादिवाक्यवदिति
SR No.032854
Book TitleAdwait Dipika Part 03
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1987
Total Pages96
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy