SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ सटीकाद्वतदीपिकायाम् पूर्वपक्षः पश्चादर्शितः सूत्रकारेण / सूत्रकारः प्रायेण जैमिनिपक्षं पूर्वपक्षयित्वा स्वमतेन सिद्धान्तयति यथा मध्वादिष्वसंभवादनधिकारं जैमिनिः --पूर्वपक्षे। भावं तु बादरायणोऽस्ति हीति-स्वमतेन सिद्धान्तः। धर्म जैमिति 'त एव प) पूर्व तु बादरायणो हेतुव्य पदेशात् सि०। शेषात्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः इति पर्वपक्षः अधिकोपदेशात्तु वादरायणस्य सि० एवं सत्यपि परामर्श जैमिनिरचोदनाचापवदति हीति अनुष्ठेयं बादरायणः साम्यश्रुतेरित्येवं क्रमदर्शनेऽपि प्रकृते समुक्तिक बादरायणमतं प्रदर्श्य पश्चात् जैमिनिमतं प्रदर्श्यते परं जैमिनिमुख्यत्वात् इति / नैतावता जैमिनिमतं सिद्धान्तोभवितुमहति मुख्यत्वापेक्षया अनन्यभासिद्धलिङ्गस्यैव प्रावल्यमिति सूत्राकारैरेव सूचनात् आकाशस्तल्लिङ्गात् अत एव प्राण इत्याद्यधिकरणस्यान्यथा भङ्गप्रसंगात् / तत्र हि सर्वभूतोत्पत्तिस्थितिलयकारणत्वं लिङ्गं आकाशे नान्वेति अपि तु ब्रह्मणीति विशेषः / तस्मादद्वैत। भिमतमोक्षे गन्तव्यत्वानुपपत्तिः अत्र ब्रह्म समश्नुते इत्यस्य च मुख्यत्वं सूत्रकाराभिमनं प्रदर्शिनम्। चतुर्थपादारंभे सम्पद्याविर्भावः स्वेन शब्दात् इति / ब्रह्मज्ञानात्, ‘अस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते इति श्रुति सिद्धो मोक्षः शरीरत्रयाद्विनिच्य ब्रह्म ज्ञात्वा मुमुक्षुः स्वेन सत्यज्ञानानन्दरूपेणाभिनिष्यद्यते इत्युक्त्वा मुक्तः प्रतिज्ञानान्, इति तदुत्तरसुत्रेण आविर्भूतस्वरूपो मुक्तः एव / प्रतिज्ञानात्; य आत्माऽपहनपाप्मेत्युपक्रम्य स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् -इति सर्वकामावाप्तिरूपस्थ सोऽश्नुते सर्वान् कामान् सह इति श्रुतिप्रसिद्धस्य मोक्षस्य प्रतिज्ञानात् / अन्ये तु जगद्वयापारवजं ब्रह्मलोके भोगं मोक्षमाहुः तत् एतद्विरुद्धम् तेषां पुनरावृत्तिगहित्यमात्रफलम् / तदपि श्रुतात् इहशब्दात् अस्मिन् मन्वन्तरेऽनावृत्तिरित्याहुः / श्रीशङ्करभगवत्पूज्यपादेभ्यो नमः द्वैतविशिष्टाद्वैतवादिनः सर्वेऽपि उपनिषत्स ब्रह्मसूत्रेषु च सर्वत्र सविशेष ब्रह्मव निरूप्यते अतः निविशेषे प्रमाणाभाव इति वदन्ति तदनुच्यते - उपनिषत्सु तावत् ईशावास्ये स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम् कविर्मनीषी परिभूस्स्वयंभूः इत्यादि / केनोपनिषदि अन्यदेव तद्विदितादतोऽविदितादधि इति / सगुणमत्राभिप्रेतं चेत् तस्य ज्ञानविषयत्वात् विदितादन्यत्वं न स्यात् अतोऽत्र श्रोत्रस्य श्रोत्रमित्यादिना प्रोक्तं ब्रह्म निर्गुणमेव / कठवल्लीषु च अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात् / अन्यत्र भूताच्च भव्यच यत्तत्पश्यसि तद्वद-इति प्रश्नसमाधानतया अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् / अनाद्यनन्तं महतः
SR No.032854
Book TitleAdwait Dipika Part 03
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1987
Total Pages96
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy