________________ द्वितीयः परिच्छेदः एवाग्निविस्फुलिङ्गादिदृष्टान्तश्रुत्या जीवानां परस्मादुत्पत्तिश्रवणमविरुद्धमित्याहुः। तन्न। स्वतो निरंशस्योपाधितोऽपि वास्तवांशासंभवात् औपाधिकस्य स्फटिकलौहित्यादेरिवानिर्वचनीयत्वात् / निरंशे उपाधिजन्यस्य तज्ज्ञाप्यस्य तत्त. न्त्रस्य वा वास्तवांशस्याभावात् / अन्यथा निरंशत्वव्याहतेः / अग्निसंयोगजन्यलौहित्याश्रयस्यापि वस्तुतोऽलोहितमात्रस्वभावत्वात् / “ब्रह्मदाशा ब्रह्मवेमे कितवाः" इति श्रुतिविरोधाच्च / “ममैवांश" इति स्मृतिरपि बिम्बप्रतिबिम्बभावनांशांशिभावं कल्पितमाहाभेदाय / अत एवाग्निविस्फुलिङ्गश्रुतिरपि न विरुध्यते अग्निस्वभावापरित्यागेन विस्फुलिङ्गानां पृथग्भूतत्वमात्रत्वात् / अन्यथा "न जायते" इति श्रुतिविरोधात् कृतहानादिन्यायविरोधाच्चेति / / न चेति / स्वभावतो नित्यस्याप्यात्मन औपाधिकोत्पत्तिसंभवात्ममापीष्टेत्याह-अत एवेति / वस्तुनो वस्तुतो द्वैरूप्यासंभवान्निरंशत्वस्य स्वाभाविकत्वे सांशत्वस्यावास्तवत्वमावश्यकमिति दूषयति-तन्नेति | ___ निरवयवे प्रदेशभेदस्यौपाघिकत्ववत्सांशत्वस्थाप्यौपाधिकत्वं दुनिरूपमित्यभिप्रेत्याह-निरश इति / औपाधिकस्यापि वास्तवत्वाभ्युपगमे बाधकमाह-अन्यथेति / औपाधिकस्य वास्तवत्वे तद्विपरीतपूर्वरूपस्य हानिरेवेत्यत्रोदाहरणमाह-अग्नीति / अलोहितघटेऽग्निसंयोगाल्लौहित्यस्य सत्यस्योत्पत्तौ तदनन्तरं तस्यालोहितस्वभावाभावादित्यर्थः। किं च धीवरादीनामपि वस्तुतो ब्रह्माभेदाभिधानान्न जीवेश्वरयोस्तिवभेदः संभवतीत्याह-ब्रह्मदाशा इति / तह्यं शत्वाभिधायिस्मृतेः का गतिरित्याशय श्रुत्यनुरोधेनैव सा व्याख्येयेत्याह--ममेति / अभेदायेति / अभेदप्रमितये इत्यर्थः। नन्वग्निविस्फुलिङ्गदृष्टान्तश्रुत्या जीवानानुत्पत्तिश्रवणादुत्पन्नानुत्पन्नयोस्तिवाभेदायोगात्तदङ्गीकारे तच्छु तिवाध इति, तत्राह-अतएवेति / अतःशब्दार्थमाह-अग्नीति / ब्रह्मस्वभावापरित्यागेन जीवानां तत औपाधिक एव विभाग इति वक्तु श्रुतिदृष्टान्तत्वेन विस्फुलिङ्गानामौष्ण्याद्यग्निस्वभावापरित्यागेन ततो विभागमात्रं वक्ति न तु तेषानुत्पत्तिमपि / अग्न्यवयवानामेव ततो विभक्तानां विस्फुलिङ्गत्वेन तेषां तत उत्पत्त्यभावादिति भावः / जीवानामुत्पत्तावेव विस्फुलिङ्गदृष्टान्त इत्युक्तौ बाधकमाह--अन्यथेति / / जीवपरयोबिम्बप्रतिबिम्बभावेऽपि तयोरभेदासम्भवाद्भेद एव वास्तव इति सदृष्टान्तमाह--अत्राहेति //