SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः शत्वादिविशिष्टस्याद्वैतवादिभिरपि भेजस्याभ्युपगतत्वात् / अभेदानुमानेऽपि तयोरेच जीवब्रह्मशब्दाभ्यामभिहितत्वात् / विशुद्धचिदात्मन एवाऽऽविद्यकबुद्ध्युपहिततया संसारः, स्वरूपेण नित्यमुक्तत्वमिति बन्धमोक्षयोरेकाधिकरणत्वाच्च / न च सर्वज्ञत्वाद्युपलक्षितस्य पक्षत्वम् / तस्यैव दुःखाद्यनुभवितृत्वेन ममासिद्धः / न च तदुपहितं पक्षः / उपहितत्वस्य विशेषणोपलक्षणत्वयोः उक्तदोषापरिहारात् / मिथ्यात्वमिशुक्तिरजतादिसमानसत्ताक भेदवत्तयाऽर्थान्तरञ्च // न च धर्मिशब्दस्य सम्बन्धिशब्दत्वात न रजतपरामशित्वमिति वाच्यम् / किं तर्हि ब्रह्मणो मित्वं किं वा भेदस्य ? / नाद्यः / ब्रह्मणस्तदभावात् / द्वितीये हि ब्रह्म भेदर्धामसमानसत्ताकजीवप्रतियोगिक भेदवदिति स्यात् / तथा च शुक्तिरजतादेरपि जीवप्रतियोगिकभेदमित्वात्सिद्धसाधनम् / न च धर्मिपदं ब्रह्मण एव वाचकम् / घटादौ साध्यवैकल्यात् / न च मिपदस्थाने स्वपदप्रक्षेपान. दोष इति - क्ष्यस्य ब्रह्माभिन्नस्य मुक्तिरिति बन्धमोक्षयोर्वैयधिकरण्यं स्यादित्याशङ्मयाह-विशुद्धति / परमते यथा शरीरोपहितात्मनिठेन सुखदुःखा भवरूपबन्धेन तदनुपहितात्मनिष्ठमोक्षस्य सामानाधिकरण्यम् एवमहंकारोपहितचिदात्मधर्मबन्धेन केबलात्मान्वयिमोक्षस्याषि तदुपपत्तिः / उपहितात्मधर्मोऽपि बन्धः परमार्थ इति परेषामभिमानः। अस्माकं तूपहितेऽपि कूटस्थचिदात्मन्याध्यातिक: स इत्येतावदेव वैषम्यमिति भावः। तृतीयेऽपि किं ब्रह्मपदलक्ष्यं सर्वज्ञत्वाधुरलक्षितं तदुपहितं वा?। आये चिन्मात्रस्य तदुपलक्षितत्वेन बीवचैतन्यस्यापि पक्षता स्यात् / तथा च हेतुरन्यतरासिद्ध इति दूषयति न च सर्वज्ञत्वेति / द्वितीये उपहितत्वं विशेषण मुपलक्षणं वा ? आये सिद्धसाधनम् / द्वितीये पूर्ववदसिद्धिरिति दूषयति- न च तदिति / एवं पक्षं दूषयित्वा साध्यमपि दूषयति-मिथ्यात्वेति / . यच्चोक्तं धर्मिशब्दस्य सम्बन्धिवाचकत्वान्मात्रादिशब्दवत् प्रकृतपदार्थधर्मिवाचकत्वमेवेति तदपवदति-न चेति / / अत्र हि प्रतिज्ञावाक्ये ब्रह्मपदार्थों भेदपदार्थश्च प्रकृतः / तत्र धर्मिपदेन ब्रह्मको मित्वं विवक्षितम्, भेदस्य वेति विकल्पयति-किं तहीति / आधे साध्याप्रसिद्धिरित्यभिप्रेत्याह-नाद्य इति / द्वितीये शुक्तिरजतादेरपि जीवप्रतियोगिकभेदं प्रति धमित्वात् तत्समसत्ताकजीवभेदो ब्रह्मण्यभेदाविरोधीष्ट एवेत्याह--द्वितीय इति / ननु ब्रह्मनिष्ठभेदस्य प्रकृतत्वात् तमि ब्रह्लब म्मिपदार्थ इत्यत आह--न चेति / घटादाविति / तत्र ब्रह्मसमसत्ताकभेदस्य ममासिद्धेरिति भावः। यदपि चोक्तं धर्मिपदस्थाने स्वपदं वाऽस्त्विति तदाभाससाम्येन दूषयति--न च धर्मीति / तादृशदुःखवदित्यत्र हेतु:ज्ञातृत्वादिति / तत्रैव दृष्टान्तो जीववदिति / ननु मिग्राहकमानेन ब्रह्मण एकत्वेन चिद्रूपत्वेन निर्दुःखत्वेनैब च सिद्धत्वादुक्तहेतूनां धर्मिग्राहकमानबाध इति चेत् तहि जीवभेदानुमानेऽपि ब्रह्मसाधक
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy