SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सटीकाद्वैतदीपिकायाम् असद्वा इदमित्यस्यापि सृष्टिपूर्व जगदनभिव्यक्तनामरूपमव्याकृतब्रह्मात्मकमित्यर्थपरत्वाच्च / अन्यथा 'ततो वै सदजायत" इत्युत्तरवाक्यविरोधात् / असतः सदुत्पत्त्यनुपपत्तेः कथमसतः सज्जायेतेति श्रुत्यन्तरे तस्य निषिद्धत्वाच्च / त्वन्मते च तयोर्मध्य एकोऽश्नातीत्युक्ते देवदत्तो वामेनाक्षणा पश्यतीत्युक्त्या तदितरेण दर्शननिषेधवदर्थादीश्वरे तन्निषेधसिद्धस्तदुक्तिवैयर्थ्यात् / अनुवादस्य च सत्यां गतावन्याय्यत्वात् / तद्वयर्थाच्च / न च प्रत्यक्षादिप्रामाण्यनिश्चयार्थं तदिति वाच्यम् / तस्यापि वेदवत्स्वत एव तत्सिद्धः। परतः प्रामाण्येऽपि घटादिप्रत्यक्षवद् व्यवहारकाले बाधाभावादेव तत्सिद्धेः। न च प्रत्यक्षस्य वेदबोधितार्थविषयतया तात्त्विकप्रामाण्यनिश्चयानुवाद इति वाच्यम् / भेदस्य स्वार्थपरानेकश्रुतिनिषेधात् / अतत्पराभिः श्रुतिभिरनुवादेऽपि रुद्ररोदनाद्यनुमानस्येव प्रत्यक्षस्यापि तदसंभवात् / तस्मान्न भेदश्रुतिर्भेदपरा। असच्छब्दस्य शून्यपरत्वे दोषमाह--अन्यथेति / विरोधमुपपादयति--असत इति / निःस्वरूपस्य शक्तत्वलक्षणस्य नियतपूर्ववर्तित्वलक्षणस्य वा कारणत्वस्यासंभवादित्यर्थः / एतामेवानुपपत्तिमभिप्रेत्य छान्दोग्यश्रुत्याऽप्यसतः सदुत्पत्तिनिषिद्धत्याह-कथमसत इति / स्वमते भेदानुवादस्य भोगनिषेधशेषत्वेन वा आर्थिकाभेदशेषत्वेन वा अर्थवत्त्वमुक्त्वा परमते "तयोरन्य" इतिवाक्यसामर्थ्यादेवेश्वरे ऽनशनसिद्धरनश्नन्नितिवाक्यवैयर्थ्यमिति सदृष्टान्तमाह-त्वन्मत इति ।अर्थसिद्धमेवानूद्यत इत्याशङ्क्याह-अनुवादस्येति / अस्यानुवादस्य निषेधाद्यशेषत्वाद्वैयर्थ्य चेत्याह-तद्वैयर्थ्याच्चेति / अशनानशनलक्षणविरुद्धधर्मानुवादो भेदप्रत्यक्षदायेिति न वैयर्थमित्याशक्य स्वतः प्रामाण्यमते स्वत एव दृढत्वान्नान्यापेक्षेति दूषयति-न चेति / परतस्त्वपक्षेऽपि समर्थप्रवृत्तिलिङ्गेनैव भेदप्रत्यक्षदाढ्य सिद्धेर्न श्र त्यपेक्षेत्याह-परत इति / अर्थक्रियादिलिङ्गेन व्यवहारसमर्थार्थविषयकत्वलक्षणप्रामाण्यसिद्धावपि त्रैकालिकबाधरहितार्थकत्वलक्षणप्रामाण्यं प्रत्यक्षादेः श्र तिसंवादादेव सिद्ध्यतीत्याशक्य तादृशभेदस्य प्रत्यक्षाद्यगोचरत्वाच्छ्र तो तंदवाचकपदाभावाच्च, तत्संवादकत्वायोगात्प्रबलश्रु तिविसंवादाच्च मैवमित्याह-न च प्रत्यक्षस्येति / भेदश्रुतेरनुवादकत्वमङ्गीकृत्यापि प्रत्यक्षादिदाढ्य हेतुत्वं न संभवतीति सदृष्टान्तमाह-अतत्पराभिरिति / रुद्रो रोदनवान् चेतनत्वात् चैत्रवदित्यनुमानसिद्धरोदनानुवादकत्वेऽपि 'सोऽरोदीत्' इति वाक्यस्य बहिषिरजतदाननिषेधपरस्य यथा न तदनुमानप्रामाण्यदायहेतुता / एवं न भोगनिषेधादिपरया भेदप्रत्यक्षादिदाढ्य सिद्धिरित्यर्थः / भेदश्रुतेर्भेदे उपक्रमादितात्पर्यलिङ्गाभावान्न भेदपरतेत्युपसंहतितस्मादिति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy