________________ सटीकाद्वैतदीपिकायाम् किञ्च यत्र विशिष्टाभावतात्पर्यज्ञानं श्रोतुः तत्र तस्यैवावश्यकता। अथवा प्रतियोगितावच्छेदकस्य प्रतियोगिनि वैशिष्टयमात्रमपेक्षितम् / न तु तस्य धर्मत्वभपि घटत्वादिनिषेधाभावप्रसङ्गात घटत्वताया अपि घटघटितस्वरूपत्वेन तस्मिन्नभावात् / अस्ति च रजतेऽघिष्ठानस्वरूपसत्तावैशिष्टयं प्रतियोगिसमानस्वभावम् / रजताभावश्वाधिष्ठान आत्मनि परमार्थ एव प्रतियोगितावच्छेवकसमानस्वभावत्वात्। तस्य च सद्रूपात्मनः परमार्थत्वात् / - अन्यथा श्रुतिप्रमितप्रपंचाभाववास्तवत्वानुपपत्तेः अपरमार्थत्वे तस्यापि विशिष्टाभावे तात्पर्यग्रहणसंभवाच्च तद्धीरावश्यकीत्याह-किं चेति / प्रतियोगितावच्छेदकविशिष्टप्रतियोगिप्रमाया अभावधीहेतुत्वेऽप्यधिष्ठानसत्वावच्छिन्नानिर्वचनीय. रजताभावप्रमा घटत इत्याह-अथवेति / ननु प्रतियोगिवृत्तिधर्मस्यैव प्रतियोगितावच्छेदकत्वनियमात् कथमधिष्ठानभूतसत्त्वस्य रजतप्रतियोगितावच्छेदकत्वमित्यत आह--प्रतियोगितेति / मात्रचोऽर्थमाहनविति / गौरवादित्यर्थः / किञ्च घटत्वं पटे नेति निषेधे किं घटः प्रतियोगितावच्छेदकः घटत्वता वा ? आये त्वन्मते तनिषेधायोग इत्याह--घटत्वादोति / द्वितीयेऽपि घटेतरावृत्तित्वे सति सकलघटवृत्तित्वरूपघटत्वतायाः सखण्डतया घटादिघटिततया घटत्वधर्मत्वायोगादुक्तदोषापात इत्याह-घटत्वताया इति / रजतेऽधिष्ठानसत्तावैशिष्टयस्य वाध्यतया तत्र न तद्वैशिष्टयप्रमा संभवतीत्याशंक्याह -अस्ति चेति / अवाधितार्थरूपप्रतियोगितावच्छेदकवैशिष्टयजानगतं प्रमात्वं नाभावप्रमायामुपयुज्यते गौरवात् कुत्राप्यसंप्रतिपत्तेश्च / किन्तु तत्संबन्धवति तत्प्रकारकत्वरूपप्रमात्वमेव तत्रोपयुज्यते / तदिहाप्यस्ति / रजते स्वसमानसत्ताकाधिष्ठानसत्ववैशिष्टयाभ्युपगमेन तज्ज्ञानस्योक्तप्रमात्वसंभवादित्यर्थः / रजताभावज्ञानेऽपि तादृशमेव प्रमात्वं स्यादित्याशंक्य' विषयबाधाभावादबाधितार्थरूएप्रमात्वं घटत इत्याह-रजताभावश्चेति / ननु सत्वविशिष्टरजताधिकरणे कथं तत्कालीनतदभावस्य पारमार्थिकत्वमिति तत्राह-प्रतियोगितेति / रजतस्य तत्र सत्ववैशिष्टयस्य चापरमार्थत्वात् वास्तवतदभावाविरोधादिति भावः। अद्वैतमतेऽवच्छेदकसत्वस्य भावरूपस्य कथं परमार्थतेत्यत्राह-तस्य चेति / अभावस्य प्रतियोगिसमानस्वभावत्वमेव लाघवात् ततस्तस्य वास्तवत्वायोग इत्याशंक्याह-अन्यथेति / कल्पितप्रपञ्चाभावस्य नेह नानेत्यादिश्रुतिप्रमेयतया वास्तवत्वान्नोक्तलाघवावतार इति भावः / उक्तलाघवबलात् प्रपञ्चाभावोऽप्यपरमार्थः किन्न स्यादित्यत आह--अपरमार्थत्व इति /