SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ 394 सटोकाद्वैतदीपिकायाम् तदापत्तेः। अन्यथा प्रत्यक्षवाधौ न स्यातामिति निरस्तम् / प्रत्यक्षवाधान्यथानुपपत्तिप्रमेयत्वात्सदसद्विलक्षणत्वस्य / असतो वाधस्याप्यनुपपत्तेः / सत्त्वस्य प्रत्यक्षत्वाप्रयोजकत्वाच्च / "नासद्रूपा न सपा या नैवोभयात्मिका। अनिर्वाच्यतया ज्ञेयेत्यादिस्मृतिरपि तत्र प्रमाणमिति सिद्धमनिर्वचनीयत्वम् / अनिर्वचनीयत्वे निर्वचनान्तरम् __ अथवा सदन्यत्वमनिर्वचनीयत्वं साध्यम् / एतेदेवानिर्वचनीयशब्दार्थः / एतच्च मिथ्यात्वानिवनीयत्वयौर्भेदमाश्रित्य / अतो न सत्पदार्थनिरूपणे गौरवम् / न चासत्य तिव्याप्तिरर्थान्तरता वा निविषयत्वादसच्छब्दस्य / प्रपञ्चव्यतिरिक्त सत्प्रतियोगिनोरन्योन्याभावस्वरूपभेदयोरसत्वात् / विमतं सदन्यत् वाध्यत्वात् यन्नवं तन्नवं यथा सत सदभेदश्चानुमानात प्रागेव सति प्रसिद्धः। रजते प्रत्यक्षसिद्धस्य हेतोय॑तिरेकश्चेति न व्याप्तिग्रहानुपपत्तिः। अर्थापत्तिरपि प्रमाणम् अन्यथा वाधानुपपत्तेः प्रत्यक्षत्वानुपपत्तेश्च / न तावत्सं विदिव स्वप्रकाशं रजतं, ज्ञेयत्वे तु संविदभिन्नत्वं विना नापरोक्ष सदसदात्मकत्वापात इत्याह-तहीति / प्रत्यक्षत्वस्यासद्वैलक्षण्येन वाध्यत्वस्य च सद्वैलक्षण्येन व्याप्तत्वात् तदनुपपत्त्या तसिद्धिः सत्वस्य प्रत्यक्षत्वेनासत्वस्य त्व. बाध्यत्वेनाव्याप्तत्वान्न तयोस्तत्प्रयोजकत्वमिति सदसद्विलक्षणस्यैव प्रत्यक्षत्वाद्युपपत्तिरित्याह-प्रत्यक्षेत्यादिना। सदसद्विलक्षणे वस्तुनि नारदवचनमपि मानमित्याहनासद्रूपेति / ___एवमाचार्योक्तलक्षणस्यानिर्वचनीयानुमानसाध्यपरतामभिधाय स्वयं तत्स्वरूपमप्याह-अथवेति / ननु मिथ्यात्वानिर्वचनीयत्वयोरभेदाद्वाधयोग्यत्वस्य मिथ्यात्वपदार्थत्वाद् वाधायोग्यत्वरूपसत्यपदार्थान्यत्वे नानिर्वचनीयनिरूपणे गौरवमित्याशंक्य मिथ्यात्वानिर्वचनीयत्वयोर्भेदान्मेवमित्याह-एतच्चेति / असतोऽपि सदन्यत्वात् तत्र लक्षणस्यातिव्याप्तिः शुक्तिरजतादेरसत्वेऽपि सदन्यत्वसंभवात् तदनुमानस्यार्थान्तरता चेत्याशंक्योक्तलक्षणाश्रयासत्यपदार्थस्यैवासंभवान्मैवमित्याह-न चेत्यादिना / भेदस्य धर्मत्वे स्वरूत्वे वानिर्द्धर्मके निःस्वरूपे वाऽसति न तदन्यत्वमित्याह-प्रपचेति / रजतादेरुक्तानिर्वचनीयत्वेऽनुमानमाह-विमतमिति / साध्याप्रसिद्धया तदभावस्याप्पप्रसिद्धस्य हेतुत्वाभावेन व्याप्तिग्रहायोगान्न व्यतिरेकित्वमित्याशंक्याह - सदभेदश्चेति / केवलव्यतिरेकिणमनंगीकुर्वाणं प्रत्याह---अर्थापत्तिरिति / प्रत्यक्षत्वस्यान्यथोपपत्तिं निराकरोति - न तावदिति / किं रजतस्य स्वप्रकाश
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy