________________ तृतीयः परिच्छेदः भिन्नत्वादिति त्वदुक्तस्मृतिविरोधः आनन्दभिन्नस्य ब्रह्मणो हेयत्वप्रसंगश्च अत्यन्ताभेदे सगुणत्वभंगः अन्यस्यापि गुणस्यानन्दभिन्नत्वे हेयत्वप्रसंगश्च / ननु ब्रह्माभिन्ना एवानन्दादयो ब्रह्मधर्मा इति चेत्, न तदभिन्नत्वे तवत्तित्वायोगात् / तदृत्तित्वं विना तद्धर्मत्वानुपपत्तेः पारिभाषिकसंबन्धाभ्युपगमेन धर्मत्वस्याधर्मत्व एवं पर्यवसानात् / आत्मा वा इदमेक एवान आसोदिति श्रुतेः मिथ्यत्वे मानता एवं "आत्मा वा इदमेक एवाग्न आसीन्नान्यत् किञ्चन मिषदि"ति श्रुतिस्तत्र प्रमाणम् / न चान आसीदिति सृष्टः पूर्वमपि कालसंबन्धप्रतीतेरविद्यावेश्च सत्वान्नागहीतविशेषणान्यायेन च मिषदिति विशेषणमात्रस्य निषेधो न प्रपञ्चस्येति वाच्यम् विशेष्ये वाधाभावेन विशिष्टस्यैव निषेधात् अविद्यादेश्च ब्रह्मातिरेकेण सत्वाभावानिषेधोपपत्तेश्च / यत्त्वग्न आसीदिति प्रतीते: कालोऽपि सृष्टेः पूर्व वर्तत इति / तन्न / अव्याकृतात्मककालादप्यग्न इत्यादिव्यपदेशोपपत्तेः' तदानीमप्यव्याकृतात्मना न चैवं सर्वोत्तम इत्युक्तिविरोधः सर्वेभ्य आत्मन एव प्रेष्ठतयोत्तमत्वात्तदभेदादेव ब्रह्मणोऽपि तथात्वात् सजातीयभेदनिवृत्तरेव तदर्थत्वादितरथा “पुरुषेश्वरयोरत्र न वैलक्षण्यमण्वपी" त्यादिवचनविरोधादिति भावः / त्वदुक्तति / त्वदुदाहृतस्मृतिविरोध इत्यर्थः / आनन्दस्य स्वरूपत्वेऽपि ज्ञानादीनां गुणत्वात् सगुणत्वमित्याशंकायामाह--अन्यस्यापीति / / अभेदेश प्रमेयत्ववद्धर्मधर्मभावसंभवात् सगुणत्वमिति शंकते-नन्विति / दृष्टान्त एवासम्प्रतिपन्न इत्यभिप्रेत्य' दूषयति --तदभिन्नत्व इति / आनन्दादेब्रह्मणश्चाभेदसंबन्धादेव धर्ममिभाव इत्यत आह-पारिभाषिकेति / अधर्मत्व एवेति / घटादेः स्वाभेदे सत्यपि धर्ममिभावाभावादिति भावः / ऐतरेयकश्रुत्याप्यात्मातिरेकस्य निषेधात् सापि तन्मिथ्यात्वे मानमित्याह---एवमिति / सृष्टेः पूर्वकालाविद्यादेरावश्यकत्वान्न तदात्मातिरिक्तवस्तुमात्रनिषेधः शक्यो वक्तुं किन्तु मिषदिति विशेषणतयोक्ताभिव्यक्तिमात्रनिषेधस्तदर्थ इति शंकामनद्यापवदति---न चेत्यादिना / विशिष्टनिषेधो विशेष्ये वाधे सत्येव हि विशेषणमात्रं विषयीकुर्यादन्यथा क्वापि विशिष्टनिषेधो न स्यात् / न चात्र विशेष्ये वाधोऽस्तीत्याह-विशेष्य इति / परोक्तवाधं निराकरोतिअविद्यादेरिति / न चाविद्यादेः सत्वाभावमात्रेण निषेधे तस्येदानीमपि संभवादन इत्यस्य वैय्यर्थ्यमिति वाच्यं ब्रह्मण एव जगन्निमित्तोपादानत्वोपपादयिषया तदुपपत्तेरिति / भावः। कालस्याप्यविद्याकार्यत्वमंगीकृत्याह-अव्याकृतेति / सृष्टेः पूर्वमपि कार्यमात्रस्या